अथर्ववेद - काण्ड 9/ सूक्त 9/ मन्त्र 20
सूक्त - ब्रह्मा
देवता - वामः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
द्वा सु॑प॒र्णा स॒युजा॒ सखा॑या समा॒नं वृ॒क्षं परि॑ षस्वजाते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति ॥
स्वर सहित पद पाठद्वा । सु॒ऽप॒र्णा । स॒ऽयुजा॑ । सखा॑या । स॒मा॒नम् । वृ॒क्षम् । परि॑ । स॒स्व॒जा॒ते॒ इति॑ । तयो॑: । अ॒न्य: । पिप्प॑लम् । स्वा॒दु । अत्ति॑ । अन॑श्नन् । अ॒न्य: । अ॒भि । चा॒क॒शी॒ति॒ ॥१४.२०॥
स्वर रहित मन्त्र
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥
स्वर रहित पद पाठद्वा । सुऽपर्णा । सऽयुजा । सखाया । समानम् । वृक्षम् । परि । सस्वजाते इति । तयो: । अन्य: । पिप्पलम् । स्वादु । अत्ति । अनश्नन् । अन्य: । अभि । चाकशीति ॥१४.२०॥
अथर्ववेद - काण्ड » 9; सूक्त » 9; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(द्वा) ब्रह्मजीवात्मानौ। द्वौ, अत्र सर्वत्र सुपां सुलुगित्याकारादेशः (सुपर्णा) अ० १।२४।१। सु+पॄ पालनपूरणयोः-न, यद्वा पत्लृ गतौ-न, तस्य रः। सुपतनौ-निरु० ३।१२। शोभनपालनौ, शोभनपूरणौ, शोभनगमनौ, सुपक्षिणौ (सयुजा) सह युज्यमानौ (सखाया) समानख्यानौ (समानम्) एकमेव (वृक्षम्) अ० ३।६।८। वृक्ष वरणे-क, यद्वा, स्नुव्रश्चि०। उ० ३।६६। ओव्रश्चू छेदने-स प्रत्ययः, कित्। वृक्षो−व्रश्चनात्-निरु० १२।२९। कार्यकारणरूपं यद्वा द्रुमवत्स्वीकरणीयं क्लेशच्छेदकं वा संसारम्। (परि) सर्वतः (सस्वजाते) ष्वञ्ज आलिङ्गने-लट्, श्लुत्वम्। स्वजेते। आश्रयतः (तयोः) जीवब्रह्मणोरनाद्योः-द० (अन्यः) जीवः (पिप्पलम्) कलस्तृपश्च। उ० १।१०४। पा पालने, वा पॄ पालनपूरणयोः-कल। पृषोदरादित्वम्। पिप्पलमुदकम्-निघ० १।१२। पालकं पूरकं वा फलम् (स्वादु) आस्वादनीयम् (अत्ति) भुङ्क्ते (अनश्नन्) अभुञ्जानः (अन्यः) परमेश्वरः-द० (अभि) सर्वतः (चाकशीति) काशृ दीप्तौ, यद्वा कश शब्दं यङ्लुकि-लट्। अवचाकशत् पश्यतिकर्मा-निघ० ३।११। भृशं दीप्यते ॥
इस भाष्य को एडिट करें