अथर्ववेद - काण्ड 2/ सूक्त 29/ मन्त्र 3
सूक्त - अथर्वा
देवता - इन्द्रः, सौप्रजाः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायुष्य सूक्त
आ॒शीर्ण॒ ऊर्ज॑मु॒त सौ॑प्रजा॒स्त्वं दक्षं॑ धत्तं॒ द्रवि॑णं॒ सचे॑तसौ। जयं॒ क्षेत्रा॑णि॒ सह॑सा॒यमि॑न्द्र कृण्वा॒नो अ॒न्यानध॑रान्त्स॒पत्ना॑न् ॥
स्वर सहित पद पाठआ॒ऽशी: । न॒: । ऊर्ज॑म् । उ॒त । सौ॒प्र॒जा॒:ऽत्वम् । दक्ष॑म् । ध॒त्त॒म् । द्रवि॑णम् । सऽचे॑तसौ । जय॑म् । क्षेत्रा॑णि । सह॑सा । अ॒यम् । इ॒न्द्र॒ । कृ॒ण्वा॒न: । अ॒न्यान् । अध॑रान् । स॒ऽपत्ना॑न् ॥२९.३॥
स्वर रहित मन्त्र
आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ। जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यानधरान्त्सपत्नान् ॥
स्वर रहित पद पाठआऽशी: । न: । ऊर्जम् । उत । सौप्रजा:ऽत्वम् । दक्षम् । धत्तम् । द्रविणम् । सऽचेतसौ । जयम् । क्षेत्राणि । सहसा । अयम् । इन्द्र । कृण्वान: । अन्यान् । अधरान् । सऽपत्नान् ॥२९.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 29; मन्त्र » 3
विषय - ब्रह्मचर्य और दीर्घ जीवन की प्रार्थना ।
भावार्थ -
हे माता और पिता ! आप दोनों (सचेतसौ) समान चित्त होकर (नः) हमारे (आशीः) आशीर्वाद (धत्तम्) प्रदान करो (उत) और (सौप्रजास्त्वं) उत्तम प्रजाओं के उत्पादक सामर्थ्य (दक्षं) बल और (द्रविणं) ऐश्वर्य को (धत्तं) धारण करो और (जयं) जय (क्षेत्राणि) और धन धान्य सम्पन्न खेतों को (धत्तं) प्राप्त करो। हे इन्द्र ! परमात्मन् ! (अयम्) यह कुमार, नव गृहपति (अन्यान्) अन्य (सपत्नान्) अपने शत्रुओं को (सहसा) बल से (अधरान्) नीचा (कृण्वानः) दिखाता हुआ (जयं) जय को और (क्षेत्राणि) धान्य सम्पन्न क्षेत्रों को भी प्राप्त करे।
टिप्पणी -
‘आशीर्णे’ इति वेबरकामितः पाठः। ‘आशीर्मे’ इति तै० सं०। ‘इश दधातु द्रविणं सुवर्चसम्’ तै० सं० । मै० सं०. (प्र०) ‘उत्त सुप्रजस्त्वं’ इति पैप्प० सं०। ‘सं जयात क्षेत्राणि’ इति पैप्प० सं०। ‘सजयान्’ इति मै० सं०, तै० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ता वहवो देवताः। १ अनुष्टुप्। २, ३, ५-७ त्रिष्टुभः। ४ पराबृहती निचृतप्रस्तारा पंक्तिः। सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें