अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 5
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
अ॑रु॒स्राण॑मि॒दं म॒हत्पृ॑थि॒व्या अध्युद्भृ॑तम्। तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत् ॥
स्वर सहित पद पाठअ॒रु॒:ऽस्राण॑म् । इ॒दम् । म॒हत् । पृ॒थि॒व्या: । अधि॑ । उत्ऽभृ॑तम् । तत् । आ॒ऽस्रा॒वस्य॑ । भे॒ष॒जम् । तत् । ऊं॒ इति॑ । रोग॑म् । अ॒नी॒न॒श॒त् ॥३.५॥
स्वर रहित मन्त्र
अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम्। तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥
स्वर रहित पद पाठअरु:ऽस्राणम् । इदम् । महत् । पृथिव्या: । अधि । उत्ऽभृतम् । तत् । आऽस्रावस्य । भेषजम् । तत् । ऊं इति । रोगम् । अनीनशत् ॥३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 5
विषय - आस्राव रोग का उपचार ।
भावार्थ -
(अरुस्राणम्) मर्मभूत वस्तु अर्थात् वीर्य के पकाने वाले ( इदं ) इस (महत्) महान् ब्रह्म को ( पृथिव्या अधि ) पार्थिक शरीर से या पार्थिक घटनाओं से (उद् भृतम् ) प्रकट किया है, (तत्) वह ब्रह्म (आस्रावस्य) वीर्यस्त्राव का ( भेषजम् ) औषध है, (तत्) वह ब्रह्म ही ( रोगम् ) रोग का ( अनीनशत् ) नाश करता है ।
टिप्पणी -
‘अरुस्पानमिदं महत् पृथिव्या अभ्युदेधृतम्’ इति पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। भैषज्यायुर्धन्वन्तरिर्देवता। १-५ अनुष्टुभः। ६ त्रिपात् स्वराट् उपरिष्टान्महाबृहती। षडर्चं सूक्तम्॥
इस भाष्य को एडिट करें