अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 6
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - त्रिपात्स्वराडुपरिष्टान्महाबृहती
सूक्तम् - आस्रावभेषज सूक्त
शं नो॑ भवन्त्वा॒प ओष॑धयः शि॒वाः। इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद्विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म् ॥
स्वर सहित पद पाठशम् । न॒: । भ॒व॒न्तु॒ । आ॒प: । ओष॑धय: । शि॒वा: । इन्द्र॑स्य । वज्र॑: । अप॑ । ह॒न्तु॒ । र॒क्षस॑: । आ॒रात् । विऽसृ॑ष्टा: । इष॑व: । प॒त॒न्तु॒ । र॒क्षसा॑म् ॥३.६॥
स्वर रहित मन्त्र
शं नो भवन्त्वाप ओषधयः शिवाः। इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥
स्वर रहित पद पाठशम् । न: । भवन्तु । आप: । ओषधय: । शिवा: । इन्द्रस्य । वज्र: । अप । हन्तु । रक्षस: । आरात् । विऽसृष्टा: । इषव: । पतन्तु । रक्षसाम् ॥३.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 6
विषय - आस्राव रोग का उपचार ।
भावार्थ -
(अपः ओषधयः शिवाः) जल की तरह शान्त तथा कल्याणकर ब्रह्मरूप औषध ( नः ) हमें (शं भवन्तु) शांतिदायक हो । ( इन्द्रस्य ) आत्मा का ( वज्रः ) आत्मिक बलरूप वज्र ( रक्षसः ) राक्षस भावों का ( अपहन्तु ) हनन करे (रक्षसाम्) इन राक्षस भावों द्वारा ( विसृष्टाः ) छोड़े गये (इषवः) वाण (आरात्) हमसे दूर ( पतन्ताम् ) गिरें ।
टिप्पणी -
‘शंनो भवन्त्वपः’ इति पाठः शङ्करपाण्डुरंगसम्मतः । ‘शंनो भवन्त्वापः’ इति सायणाभिमतः ।
ऋषि | देवता | छन्द | स्वर - अंगिरा ऋषिः। भैषज्यायुर्धन्वन्तरिर्देवता। १-५ अनुष्टुभः। ६ त्रिपात् स्वराट् उपरिष्टान्महाबृहती। षडर्चं सूक्तम्॥
इस भाष्य को एडिट करें