ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 2
ऋषिः - पूरणो वैश्वामित्रः
देवता - इन्द्र:
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - धैवतः
तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिर॒: श्वात्र्या॒ आ ह्व॑यन्ति । इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥
स्वर सहित पद पाठतुभ्य॑म् । सु॒ताः । तुभ्य॑म् । ऊँ॒ इति॑ । सोत्वा॑सः । त्वाम् । गिरः॑ । श्वात्र्याः॑ । आ । ह्व॒य॒न्ति॒ । इन्द्र॑ । इ॒दम् । अ॒द्य । सव॑नम् । जु॒षा॒णः । विश्व॑स्य । वि॒द्वान् । इ॒ह । पा॒हि॒ । सोम॑म् ॥
स्वर रहित मन्त्र
तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिर: श्वात्र्या आ ह्वयन्ति । इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥
स्वर रहित पद पाठतुभ्यम् । सुताः । तुभ्यम् । ऊँ इति । सोत्वासः । त्वाम् । गिरः । श्वात्र्याः । आ । ह्वयन्ति । इन्द्र । इदम् । अद्य । सवनम् । जुषाणः । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥ १०.१६०.२
ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 2
विषय - सेनापति के कर्त्तव्य।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! शत्रुहन्तः ! (तुभ्यम् सुताः) ये समस्त ऐश्वर्य तेरे ही लिये हैं। (तुभ्यम् उ सोत्वासः) ये ऐश्वर्य उत्पन्न करने वाले भी तेरे ही लिये हैं। (त्वां) तुझको (श्वात्र्याः) सुखकारिणी, शुद्ध (गिरः) वाणियां (आह्वयन्ति) सब ओर से बुला रही हैं। (अद्य इदं सवनं जुषाणः) आज इस सवन, अभिषेक को प्रेम से स्वीकार करता हुआ (विश्वस्य विद्वान्) सबको जानता हुआ (सोमम् पाहि) इस ऐश्वर्य युक्त राष्ट्र को पालन कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः पूरणो वैश्वामित्रः॥ इन्द्रो देवता॥ छन्दः- १, ३ त्रिष्टुप्। २ पादनिचृत् त्रिष्टुप्। ४, ५ विराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें