ऋग्वेद - मण्डल 10/ सूक्त 62/ मन्त्र 4
ऋषिः - नाभानेदिष्ठो मानवः
देवता - विश्वे देवा आङ्गिरसो वा
छन्दः - निचृज्जगती
स्वरः - निषादः
अ॒यं नाभा॑ वदति व॒ल्गु वो॑ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन । सु॒ब्र॒ह्म॒ण्यम॑ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ॥
स्वर सहित पद पाठअ॒यम् । नाभा॑ । व॒द॒ति॒ । व॒ल्गु । वः॒ । गृ॒हे । देव॑ऽपुत्राः । ऋ॒ष॒यः॒ । तत् । शृ॒णो॒त॒न॒ । सु॒ऽब्र॒ह्म॒ण्यम् । अ॒ङ्गि॒र॒सः॒ । वः॒ । अ॒स्तु॒ । प्रति॑ । गृ॒भ्णी॒त॒ । मा॒न॒वम् । सु॒ऽमे॒ध॒सः॒ ॥
स्वर रहित मन्त्र
अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन । सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
स्वर रहित पद पाठअयम् । नाभा । वदति । वल्गु । वः । गृहे । देवऽपुत्राः । ऋषयः । तत् । शृणोतन । सुऽब्रह्मण्यम् । अङ्गिरसः । वः । अस्तु । प्रति । गृभ्णीत । मानवम् । सुऽमेधसः ॥ १०.६२.४
ऋग्वेद - मण्डल » 10; सूक्त » 62; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 4
अष्टक » 8; अध्याय » 2; वर्ग » 1; मन्त्र » 4
विषय - गुरु और ज्ञानार्थी शिष्यों के कर्त्तव्य।
भावार्थ -
हे (देव पुत्राः) विद्वान् दानशील जनों के पुत्रो और शिष्यो ! हे (ऋषयः) मन्त्रार्थ ज्ञान के दृष्टा जनो ! (अयम्) यह विद्वान् गुरु (वः) आप लोगों के (गृहे) गृह में वा आश्रम में, वा आप लोगों को शिष्यवत् स्वीकारार्थ ग्रहण करने के लिये (नाभा) नाभि अर्थात् केन्द्र में बांधने वाले, गुरुपद पर स्थिर होकर (वः) आप लोगों को (वल्गु वदति) उत्तम वचन कहता, उपदेश करता है। आप (तत् शृणोतन) उसको श्रवण करो। हे (अंगिरसः वः सुब्रह्मण्यम् अस्तु) विद्वान् जनो ! आप लोगों को उत्तम वेदज्ञान और उत्तम ब्रह्मवर्चस् प्राप्त हो, आप (सु-मेधसः मानवं प्रति गृभ्णीत) उत्तम मेधा वाले होकर मनुष्योपयोगी समस्त ज्ञान को वा मानवीय जनसमूह को प्राप्त हो भिक्षा, अन्न आदि ग्रहण करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नाभानेदिष्ठो मानव ऋषिः। देवता-१-६ विश्वेदेवाङ्गिरसो वा। ७ विश्वेदेवाः। ८—११ सावर्णेर्दानस्तुतिः॥ छन्द:—१, २ विराड् जगती। ३ पादनिचृज्जगती। ४ निचृज्जगती। ५ अनुष्टुप्। ८, ९ निचृदनुष्टुप्। ६ बृहती। ७ विराट् पङ्क्तिः। १० गायत्री। ११ भुरिक् त्रिष्टुप्॥
इस भाष्य को एडिट करें