ऋग्वेद - मण्डल 6/ सूक्त 27/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
न॒हि नु ते॑ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म। न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते॑ ॥३॥
स्वर सहित पद पाठन॒हि । नु । ते॒ । म॒हि॒मनः॑ । स॒म॒स्य॒ । न । म॒घ॒ऽव॒न् । म॒घ॒व॒त्ऽत्वस्य॑ । वि॒द्म । न । राध॑सःऽराधसः । नूत॑नस्य । इन्द्र॑ । नकिः॑ । द॒दृ॒शे॒ । इ॒न्द्रि॒यम् । ते॒ ॥
स्वर रहित मन्त्र
नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म। न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते ॥३॥
स्वर रहित पद पाठनहि। नु। ते। महिमनः। समस्य। न। मघऽवन्। मघवत्ऽत्वस्य। विद्म। न। राधसःऽराधसः। नूतनस्य। इन्द्र। नकिः। ददृशे। इन्द्रियम्। ते ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 27; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 23; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 23; मन्त्र » 3
विषय - इन्द्र का अज्ञेय ऐश्वर्यं ।
भावार्थ -
हे ( मघवन् ) ऐश्वर्यवन् ! प्रभो ! राजन् ! ( ते महिमनः ) तेरे महान् सामर्थ्य के विषय में हम ( नहि नु सं विद्म ) कुछ भी नहीं जानते हैं । और तेरे ( मघवत्वस्य न संविद्म ) तेरे महान् ऐश्वर्य के विषय में भी कुछ नहीं जानते । हे ( इन्द्र ) ऐश्वर्यवन् ! ( ते नूतनस्य ) तेरे नये से नये ( राधसः राधसः ) धन ऐश्वर्य और आराधना योग्य उत्तम गुण-राशि को भी ( न संविद्म ) हम नहीं जानते । हे ऐश्वर्यवन् ! ( ते इन्द्रियं ) तेरा महान् ऐश्वर्यमय स्वरूप और बल भी ( नकिः ददृशे ) किसी को गोचर नहीं होता ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजा बार्हस्पत्य ऋषिः ॥ १ - ७ इन्द्रः । ८ अभ्यावर्तिनश्चायमानस्य दानस्तुतिर्देवता ।। छन्दः—१, २ स्वराट् पंक्ति: । ३, ४ निचृत्त्रिष्टुप् । ५, ७, ८ त्रिष्टुप् । ६ ब्राह्मी उष्णिक् ।।
इस भाष्य को एडिट करें