Loading...
ऋग्वेद मण्डल - 6 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 74/ मन्त्र 3
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - सोमारुद्रौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम्। अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥३॥

    स्वर सहित पद पाठ

    सोमा॑रुद्रा । यु॒वम् । ए॒तानि॑ । अ॒स्मे इति॑ । विश्वा॑ । त॒नूषु॑ । भे॒ष॒जानि॑ । ध॒त्त॒म् । अव॑ । स्य॒त॒म् । मु॒ञ्चत॑म् । यत् । नः॒ । अस्ति॑ । त॒नूषु॑ । ब॒द्धम् । कृ॒तम् । एनः॑ । अ॒स्मत् ॥


    स्वर रहित मन्त्र

    सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम्। अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥३॥

    स्वर रहित पद पाठ

    सोमारुद्रा। युवम्। एतानि। अस्मे इति। विश्वा। तनूषु। भेषजानि। धत्तम्। अव। स्यतम्। मुञ्चतम्। यत्। नः। अस्ति। तनूषु। बद्धम्। कृतम्। एनः। अस्मत् ॥३॥

    ऋग्वेद - मण्डल » 6; सूक्त » 74; मन्त्र » 3
    अष्टक » 5; अध्याय » 1; वर्ग » 18; मन्त्र » 3

    भावार्थ -
    हे (सोमारूद्रा ) जल और अग्नितत्वों के तुल्य शान्तिदायक और रोगहारक विद्वान् पुरुषो ! (युवम् ) आप दोनों ( अस्मे तनूषु ) हमारे शरीरों के निमित्त ( एतानि ) ये नाना प्रकार के ( विश्वा ) समस्त ( भेषजानि ) रोग दूर करने के औषधों को ( धत्तम् ) धारण करो । ( नः तनूषु ) हमारे शरीरों में ( यत् ) जो ( कृतं ) किया हुआ ( एनः ) पाप ( बद्धं अस्ति) बंधा है उसको ( अव स्यतम् ) दूर करो और ( अस्मत् ) हमसे ( अब मुञ्चतम् ) छुड़ाओ ।

    ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः ॥ सोमारुद्रौ देवते । छन्दः – १, २, ४ त्रिष्टुप् । ३ निचृत्त्रिष्टुप् ॥ चतुर्ऋचं सूक्तम् ।।

    इस भाष्य को एडिट करें
    Top