Loading...
ऋग्वेद मण्डल - 7 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 35/ मन्त्र 2
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑। शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥२॥

    स्वर सहित पद पाठ

    शम् । नः॒ । भगः॒ । शम् । ऊँ॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊँ॒ इति॑ । स॒न्तु॒ । रायः॑ । शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥


    स्वर रहित मन्त्र

    शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः। शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥

    स्वर रहित पद पाठ

    शम्। नः। भगः। शम्। ऊँ इति। नः। शंसः। अस्तु। शम्। नः। पुरम्ऽधिः। शम्। ऊँ इति। सन्तु। रायः। शम्। नः। सत्यस्य। सुऽयमस्य। शंसः। शम्। नः। अर्यमा। पुरुऽजातः। अस्तु ॥२॥

    ऋग्वेद - मण्डल » 7; सूक्त » 35; मन्त्र » 2
    अष्टक » 5; अध्याय » 3; वर्ग » 28; मन्त्र » 2

    भावार्थ -
    ( भगः नः शम्) ऐश्वर्य हमें सुखकारी हो । ( शंसः नः शम् उ ) उपदेश, अनुशासन, स्तुति, और उपदेष्टा जन हमें अवश्य शान्ति सुख दें । ( पुरन्धिः) बहुत से पदार्थों का धारक आकाश, देहधारक बुद्धि, पुरधारक, राजा, आदि (नः शम्) हमें शान्तिदायक हों । (रायः शम् उ सन्तु ) ऐश्वर्य, नाना धन हमें शान्ति दें । ( सु-यमस्य ) उत्तम नियन्ता, शासक, और ( सत्यस्य शंसः ) सत्य का उपदेष्टा ( नः शम् ) हमें सुखकर हो । ( पुरु-जातः ) बहुतों में प्रसिद्ध ( अर्थमा ) न्यायकारी पुरुष ( नः शं अस्तु ) हमें शान्ति सुख का देने वाला हो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि:॥ विश्वेदेवा देवताः॥ छन्दः– १, २, ३, ४, ५, ११, १२ त्रिष्टुप्। ६, ८, १०, १५ निचृत्त्रिष्टुप्। ७, ९ विराट् त्रिष्टुप्। १३, १४ भुरिक् पंक्तिः॥ पञ्चदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top