Loading...
ऋग्वेद मण्डल - 8 के सूक्त 31 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 31/ मन्त्र 18
    ऋषिः - मनुर्वैवस्वतः देवता - दम्पत्योराशिषः छन्दः - आर्चीभुरिक्पङ्क्ति स्वरः - पञ्चमः

    अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॑म् । दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ॥

    स्वर सहित पद पाठ

    अस॑त् । अत्र॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । दे॒वाना॑म् । यः । इत् । मनः॑ । यज॑मानः । इय॑क्षति । अ॒भि । इत् । अय॑ज्वनः । भु॒व॒त् ॥


    स्वर रहित मन्त्र

    असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् । देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

    स्वर रहित पद पाठ

    असत् । अत्र । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् । देवानाम् । यः । इत् । मनः । यजमानः । इयक्षति । अभि । इत् । अयज्वनः । भुवत् ॥ ८.३१.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 31; मन्त्र » 18
    अष्टक » 6; अध्याय » 2; वर्ग » 40; मन्त्र » 8

    भावार्थ -
    ( यत् इत् देवानां मनः ) जो देव, उत्तम तेजस्वी विद्वान् पुरुषों के ज्ञान का ( इयक्षति ) आदर, सत्संग करता है, वह ( अयज्वनः ) सत्संग न करने वाले कदाचारी पुरुषों को ( अभि भुवत् इत् ) अवश्य परास्त करता है, क्योंकि उसका ( अत्र ) इस लोक में ( सुवीर्यम् असत् ) उत्तम वीर्य बल और विद्या सामर्थ्य हो जाता है और उसको (त्यत्) वह अलौकिक (आशु अश्व्यम्) शीघ्रगामी अश्वों से युक्त सैन्यादि और बलवान् इन्द्रिय-बल, सामर्थ्य प्राप्त होता है। इतिः चन्वारिंशो वर्गः॥ इति षष्ठेऽष्टके द्वितीयोध्यायः समाप्तः॥

    ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ १—४ इज्यास्तवो यजमानप्रशंसा च। ५—९ दम्पती। १०—१८ दम्पत्योराशिषो देवताः॥ छन्दः—१, ३, ५, ७, १२ गायत्री। २, ४, ६, ८ निचृद् गायत्री। ११, १३ विराड् गायत्री। १० पादनिचृद् गायत्री। ९ अनुष्टुप्। १४ विराडनुष्टुप्। १५—१७ विराट् पंक्तिः। १८ आर्ची भुरिक् पंक्तिः॥

    इस भाष्य को एडिट करें
    Top