Loading...
ऋग्वेद मण्डल - 8 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 41/ मन्त्र 1
    ऋषिः - नाभाकः काण्वः देवता - वरुणः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    अस्मै । ऊँ॒ इति॑ । सु । प्रऽभू॑तये । वरु॑णाय । म॒रुत्ऽभ्यः॑ । अर्च॑ । वि॒दुःऽत॑रेभ्यः । यः । धी॒ता । मानु॑षाणाम् । प॒श्वः । गाःऽइ॑व । रक्ष॑ति । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः । यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    अस्मै । ऊँ इति । सु । प्रऽभूतये । वरुणाय । मरुत्ऽभ्यः । अर्च । विदुःऽतरेभ्यः । यः । धीता । मानुषाणाम् । पश्वः । गाःऽइव । रक्षति । नभन्ताम् । अन्यके । समे ॥ ८.४१.१

    ऋग्वेद - मण्डल » 8; सूक्त » 41; मन्त्र » 1
    अष्टक » 6; अध्याय » 3; वर्ग » 26; मन्त्र » 1

    भावार्थ -
    हे विद्वान् पुरुष ! तू (अस्मै) इस ( प्रभूतये ) उत्तम भूति, जन्म, सामर्थ्य और यश वाले ( वरुणाय ) श्रेष्ठ पुरुष और ( विदुस्तरेभ्यः ) अपने से अधिक जानने वाले विद्वान्, (मरुद्भयः) बलवान् मनुष्यों का ( अर्च ) आदर सत्कार कर। और उसका भी आदर करो ( यः ) जो ( धीता ) सुविचारित ( पश्वः गाः ) गौ आदि पशुओं के समान ही ( पश्वः गाः ) ज्ञान दर्शाने वाली वाणियों की ( मनुष्याणां ) मनुष्यों के उपकारार्थ ( रक्षति ) रक्षा करता है। ( अन्यके समे नभन्ताम् ) समस्त हानिकारक जन नष्ट हों।

    ऋषि | देवता | छन्द | स्वर - नाभाकः काण्व ऋषिः॥ वरुणो देवता॥ छन्दः—१, ५ त्रिष्टुप्। ४, ७ भुरिक् त्रिष्टुप्। ८ स्वराट् त्रिष्टुप्। २, ३, ६, १० निचृज्जगती। ९ जगती॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top