ऋग्वेद - मण्डल 8/ सूक्त 49/ मन्त्र 5
ऋषिः - प्रस्कण्वः काण्वः
देवता - इन्द्र:
छन्दः - भुरिग्बृहती
स्वरः - मध्यमः
आ न॒: स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑: ॥
स्वर सहित पद पाठआ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥
स्वर रहित मन्त्र
आ न: स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः । यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातय: ॥
स्वर रहित पद पाठआ । नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृऽभिः । यम् । ते । स्वधाऽवन् । स्वदयन्ति । धेनवः । इन्द्र । कण्वेषु । रातयः ॥ ८.४९.५
ऋग्वेद - मण्डल » 8; सूक्त » 49; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 14; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 14; मन्त्र » 5
विषय - गोरसों के तुल्य सुखद उसके दान।
भावार्थ -
हे ( स्वधावन् ) अन्नपते ! हे ऐश्वर्य को धारण करने वाली शक्ति के स्वामिन् ! ( ते ) तेरे ( कण्वेषु ) विद्वान् पुरुषों के निमित्त ( रातयः ) दिये नाना दान ही ( यं स्तोमम् ) जिस स्तुतियोग्य पद को ( धेनवः ) वाणियों या गोरसों के समान ( स्वदयन्ति ) अधिक स्वादु, सुखद कर देते हैं तू उस ( नः स्तोमम् ) हमारे स्तुत्य वचन या पद को ( सोतृभिः हियानः ) अभिषिक्त वर्ग से प्रेरित होकर ( अश्वः न ) अश्व के समान ( आ उप द्रवद् ) प्राप्त हो। इति चतुर्दशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रस्कण्वः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ बृहती। ३ विराड् बृहती। ५ भुरिग्बृहती। ७, ९ निचृद् बृहती। २ पंक्ति:। ४, ६, ८, १० निचृत् पंक्ति॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें