Loading...
ऋग्वेद मण्डल - 9 के सूक्त 101 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 101/ मन्त्र 5
    ऋषिः - ययातिर्नाहुषः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    इन्दु॒रिन्द्रा॑य पवत॒ इति॑ दे॒वासो॑ अब्रुवन् । वा॒चस्पति॑र्मखस्यते॒ विश्व॒स्येशा॑न॒ ओज॑सा ॥

    स्वर सहित पद पाठ

    इन्दुः॑ । इन्द्रा॑य । प॒व॒ते॒ । इति॑ । दे॒वासः॑ । अ॒ब्रु॒व॒न् । वा॒चः । पतिः॑ । म॒ख॒स्य॒ते॒ । विश्व॑स्य । ईशा॑नः । ओज॑सा ॥


    स्वर रहित मन्त्र

    इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥

    स्वर रहित पद पाठ

    इन्दुः । इन्द्राय । पवते । इति । देवासः । अब्रुवन् । वाचः । पतिः । मखस्यते । विश्वस्य । ईशानः । ओजसा ॥ ९.१०१.५

    ऋग्वेद - मण्डल » 9; सूक्त » 101; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 1; मन्त्र » 5

    भावार्थ -
    (इन्दुः) इन्दु, आत्मा (इन्द्राय पवते) इन्द्र परमेश्वर को प्राप्त करने के लिये जाता है (इति) इस प्रकार (देवासः) विद्वान् लोग: (अब्रुवन्) उपदेश करते हैं। (वाचः पतिः) वाणी का पालक प्रभु (मखस्यते) पूजा की अपेक्षा करता है वह (ओजसा) बल से (विश्वस्यईशानः) समस्त जगत् का स्वामी है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः–१-३ अन्धीगुः श्यावाश्विः। ४—६ ययातिर्नाहुषः। ७-९ नहुषो मानवः। १०-१२ मनुः सांवरणः। १३–१६ प्रजापतिः। पवमानः सोमो देवता॥ छन्द:- १, ६, ७, ९, ११—१४ निचृदनुष्टुप्। ४, ५, ८, १५, १६ अनुष्टुप्। १० पादनिचृदनुष्टुप्। २ निचृद् गायत्री। ३ विराड् गायत्री॥ षोडशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top