अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा भुरिगतिधृतिः
सूक्तम् - अध्यात्म सूक्त
बृ॒हद॒न्यतः॑ प॒क्ष आसी॑द्रथन्त॒रम॒न्यतः॒ सब॑ले स॒ध्रीची॑। यद्रोहि॑त॒मज॑नयन्त दे॒वाः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठबृ॒हत् । अ॒न्यत॑: । प॒क्ष: । आसी॑त् । र॒थ॒म्ऽत॒रम् । अ॒न्यत॑: । सब॑ले॒ इति॒ सऽब॑ले । स॒ध्रीची॒ इति॑ । यत् । रोहि॑तम् । अज॑नयन्त । दे॒वा: । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१२॥
स्वर रहित मन्त्र
बृहदन्यतः पक्ष आसीद्रथन्तरमन्यतः सबले सध्रीची। यद्रोहितमजनयन्त देवाः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठबृहत् । अन्यत: । पक्ष: । आसीत् । रथम्ऽतरम् । अन्यत: । सबले इति सऽबले । सध्रीची इति । यत् । रोहितम् । अजनयन्त । देवा: । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 12
विषय - रोहित, आत्मा ज्ञानवान् राजा और परमात्मा का वर्णन।
भावार्थ -
उस ‘रोहित’ आत्मा का (अन्यतः पक्षः) एक तरफ़ का पक्ष, बाजू (बृहत्) यह, ‘बृहत्’ द्यौ या प्राण (आसीत्) है और (अन्यतः) दूसरी ओर का पक्ष (रथन्तरम्) ‘रथन्तर’ पृथिवी और अपान है। वे दोनों (सबले) बल से युक्त और (सध्रीची) सदा साथ रहने वाले हैं। (यद्) जब (रोहितम्) आत्मा को (देवाः) देवगण, पञ्चभूत आदि और उनके बने सूक्ष्म इन्द्रियगण और राजा को प्रजा के विद्वान् गण, (अजनयन्त) प्रकट रूप से उत्पन्न करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मम्। रोहित आदित्य देवता। १ चतुरवसानाष्टपदा आकृतिः, २-४ त्र्यवसाना षट्पदा [ २, ३ अष्टिः, २ भुरिक् ४ अति शाक्वरगर्भा धृतिः ], ५-७ चतुरवसाना सप्तपदा [ ५, ६ शाक्वरातिशाक्वरगर्भा प्रकृतिः ७ अनुष्टुप् गर्भाति धृतिः ], ८ त्र्यवसाना षट्पदा अत्यष्ठिः, ६-१९ चतुरवसाना [ ९-१२, १५, १७ सप्तपदा भुरिग् अतिधृतिः १५ निचृत्, १७ कृति:, १३, १४, १६, १९ अष्टपदा, १३, १४ विकृतिः, १६, १८, १९ आकृतिः, १९ भुरिक् ], २०, २२ त्र्यवसाना अष्टपदा अत्यष्टिः, २१, २३-२५ चतुरवसाना अष्टपदा [ २४ सप्तपदाकृतिः, २१ आकृतिः, २३, २५ विकृतिः ]। षड्विंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें