Loading...
अथर्ववेद > काण्ड 20 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 34/ मन्त्र 15
    सूक्त - गृत्समदः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३४

    यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥

    स्वर सहित पद पाठ

    य: । सु॒न्वन्त॑म् । अव॑ति । य: । पच॑न्तम् । य: । शंस॑न्तम् । य: । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑: । यस्य॑ । इ॒दम् । राध॑: । स: । ज॒ना॒स॒: । इन्द्र॑:॥३४.१५॥


    स्वर रहित मन्त्र

    यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती। यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥

    स्वर रहित पद पाठ

    य: । सुन्वन्तम् । अवति । य: । पचन्तम् । य: । शंसन्तम् । य: । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोम: । यस्य । इदम् । राध: । स: । जनास: । इन्द्र:॥३४.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 34; मन्त्र » 15

    भावार्थ -
    जो परमेश्वर प्रभु ! (सुन्वन्तम्) यज्ञ करने वाले की, (अवति) रक्षा करता है। (यः पचन्तम्) जो पालन करने हारे को, अर्थात् वीर्य, विद्या और बल को परिपक्व करने वाले की रक्षा करता है (यः) जो (उत्या) अपने रक्षाकारिणी शक्ति से (शंसन्तं) स्तुति करने वाले और (यः शशमानम्) जो ऊंचे गति करने वाले की रक्षा करता है। (यस्य) जिस को (ब्रह्म) ब्रह्म, वेद, ब्राह्मबल (वर्धनम्) बढ़ाता है (यस्य सोमः वर्धनम्) जिसको सोम, वीर्य, क्षात्रबल और राष्ट्र बल बढ़ाता है। (यस्य इदं राधः) जिसका यह समस्त ऐश्वर्य है। (जनासः) हे मनुष्यो ! (सः इन्दः) ग्रह परमेश्वर और राजा है।

    ऋषि | देवता | छन्द | स्वर - गृत्समद ऋषिः। इन्द्रो देवता। त्रिष्टुभः। सामसूक्तम्। अष्टादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top