Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 42/ मन्त्र 1
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्। इन्द्रा॒त्परि॑ त॒न्वं ममे ॥
स्वर सहित पद पाठवाच॒म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ॥ इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥४२.१॥
स्वर रहित मन्त्र
वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्। इन्द्रात्परि तन्वं ममे ॥
स्वर रहित पद पाठवाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ॥ इन्द्रात् । परि । तन्वम् । ममे ॥४२.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 42; मन्त्र » 1
विषय - ईश्वर राजा और आत्मा।
भावार्थ -
(अष्टापदीम्) आठ पदों, ज्ञानस्थानों वाली और (नवस्त्रक्तिम्) नव प्रकार की रचना वाली, (ऋतस्पृशम्) सत्य का ज्ञान कराने वाली, (तन्वम्) विस्तृत (वाचम्) वाणी को मैं (इन्द्रात्) ज्ञानैश्वर्यवान्, इन्द्र परमगुरु और परमेश्वर से (परिममे) पूर्णतया ज्ञान करता हूं।
टिप्पणी -
अष्टौ पदानि ज्ञान स्थानानि यस्या सा अष्टापदी। वेदा उपवेदाश्चेत्यष्टौ नवस्रक्तयो रचनाः यस्याः सा। शिक्षा कल्प व्याकरण निघण्टु निरुक्त छन्दो ज्योतिषं धर्मशास्त्रं मीमांसा चेति नवस्रक्तयः।
ऋषि | देवता | छन्द | स्वर - कुरुसुतिः काण्व ऋषिः। इन्द्रो देवता। गायत्र्यः। तृचं सूक्तम्॥ ‘कुरुस्तुतिः’ इति क्वचित्।
इस भाष्य को एडिट करें