अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 4
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - शक्वरीगर्भा जगती
सूक्तम् - दीर्घायुप्राप्ति सूक्त
श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥
स्वर सहित पद पाठश॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥
स्वर रहित मन्त्र
शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥
स्वर रहित पद पाठशतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 4
विषय - आरोग्य और दीर्घायु होने के उपाय ।
भावार्थ -
(शतायुषा) सौ वर्ष की आयु देने में समर्थ (हविषा) हविरूप ओषधि या अन्न से मैं (एनं) इस बालक को (आहार्षम्) मौत के मुंह से लौटा ले आता या प्राप्त करता हूं । विद्वान् लोग बालक को आशीर्वाद दें हे बालक ! तू (वर्धमानः) बराबर वृद्धि को प्राप्त होता हुआ (शतं शरदः) सौ शरत् कालों तक, (शतं हेमन्तान्) सौ हेमन्त कालों तक और (शतम् उ वसन्तान्) सौ वसन्तों तक (जीव) जी, प्राण धारण कर और (इन्द्रः) परमेश्वर, (अग्निः) ज्ञानवान्, (सविता) सब का प्रकाशक और उत्पादक (बृहस्पतिः) महान् ब्रह्माण्ड का स्वामी परमात्मा (ते) तुझे (शतं) सौ वर्ष की आयु प्रदान करे ।
टिप्पणी -
(तृ०) ‘शतं त इन्द्राग्नी सविता’, (च०) ‘हविषेमाम् पुनर्दुः’ इति पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर - ब्रह्मा भृग्वङ्गिराश्च ऋषि । ऐन्द्राग्न्युषसो यक्ष्मनाशनो वा देवता । ४ शक्वरीगर्भा जगती । ५, ६ अनुष्टुभौ । ७ उष्णिग् बृहतीगर्भा । पण्यापक्तिः । ८ त्र्यवसाना षट्पदा बृहतीगर्भा जगती । १ - ३ त्रिष्टुभः । अष्टर्चं सूक्तम् ।
इस भाष्य को एडिट करें