अथर्ववेद - काण्ड 3/ सूक्त 15/ मन्त्र 4
सूक्त - अथर्वा
देवता - विक्रयः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा विराडत्यष्टिः
सूक्तम् - वाणिज्य
इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥
स्वर सहित पद पाठइ॒माम् । अ॒ग्ने॒ । श॒रणि॑म् । मी॒मृ॒ष॒: । न॒: । यम् । अध्वा॑नम् । अगा॑म । दू॒रम् । शु॒नम् । न॒: । अ॒स्तु॒ । प्र॒ऽप॒ण: । वि॒ऽक्रय । च॒ । प्र॒ति॒ऽप॒ण: । फ॒लिन॑म् । मा॒ । कृ॒णो॒तु॒ । इ॒दम् । ह॒व्यम् । स॒म्ऽवि॒दा॒नौ । जु॒षे॒था॒म् । शु॒नम् । न॒: । अ॒स्तु॒ । च॒रि॒तम् । उत्थि॑तम् । च॒ ॥१५.४॥
स्वर रहित मन्त्र
इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम्। शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु। इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥
स्वर रहित पद पाठइमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥
अथर्ववेद - काण्ड » 3; सूक्त » 15; मन्त्र » 4
विषय - वणिग्-व्यापार का उपदेश ।
भावार्थ -
हे (अग्ने) परमात्मन् या साक्षिन् ! जामिन ! दोनों के बीच के मध्यस्थ पुरुष ! (इमाम्) इस (नः) हमारी (शरणिम्) पीड़ा, थकान को (मीमृषः) क्षमा कर, सहन कर, दूर कर । (यम्) जिस (अध्वानं) मार्ग को हम (दूरम्) दूर तक (अगाम) चले जावें और (नः) हमारा (प्रपणः) अपने पदार्थ को दूसरे के हाथ बेचने के लिये उसका भाव=दर नियत करना और (विक्रयश्च) उसको दूसरे के हाथ बेच देना और (प्रतिपणः) दूसरे के पदार्थ को स्वयं प्राप्त करने के लिये दर नियत करना, ये सब व्यवहार (नः) हमारे लिये (शुनं) शुभ, सुखकारी या अतिशीघ्र (अस्तु) हो जायं । यह सब व्यवहार (मां) मुझ को (फलिनं) बहुत फल, लाभ प्राप्त करने में समर्थ (कृणोतु) करे । मध्यस्थ कहता है कि - हे व्यवहार, व्यापार करने वाले व्यापारियो ! तुम दोनों (इदं हव्यं) इस लेन देन के पदार्थ को (संविदानौ) खूब अच्छी प्रकार से परस्पर सलाह करके (जुषेथां) प्राप्त करो जिससे (नः) हमारा (चरितम्) यह किया हुआ व्यापार, या चलान किया गया माल और (उत्थितं च) उठाया हुआ नफा भी (नः शुनं अस्तु) हमें सुखकारी हो ।
टिप्पणी -
(द्वि०) ‘न इममध्वानं यमगामदूरात्’ इति ऋ० । (तृ०) ‘पणोनो अस्तु’ (च०) ‘गोधनिः नः कृणोतु’ (प्र०) ‘संरराणाः हविरिदं जुषन्तां’ इति पैप्प० सं० ।
ऋषि | देवता | छन्द | स्वर - पण्यकामोऽथर्वा ऋषिः। विश्वेदेवाः उत इन्द्राग्नी देवताः। १ भुरिक्, ४ त्र्यवसाना बृहतीगर्भा विराड् अत्यष्टिः । ५ विराड् जगती । ७ अनुष्टुप् । ८ निचृत् । २, ३, ६ त्रिष्टुभः। अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें