Loading...
ऋग्वेद मण्डल - 10 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 52/ मन्त्र 6
    ऋषिः - अग्निः सौचीकः देवता - देवाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् । औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयन्त ॥

    स्वर सहित पद पाठ

    त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् । औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥


    स्वर रहित मन्त्र

    त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् । औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥

    स्वर रहित पद पाठ

    त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् । औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥ १०.५२.६

    ऋग्वेद - मण्डल » 10; सूक्त » 52; मन्त्र » 6
    अष्टक » 8; अध्याय » 1; वर्ग » 12; मन्त्र » 6

    पदार्थः -
    (त्री सहस्राणि त्रीणि शता त्रिंशत् च नव च देवाः) त्रीणि सहस्राणि त्रीणि शतानि त्रिंशत् नव च देवाः-दिव्यशक्तयः प्रधाननाडीतन्तवो वा यद्वा बाह्यदिव्या देवाः (असपर्यन्) परिचरन्ति परिरक्षन्ति (अस्मै घृतैः-औक्षन्-बर्हिः-अस्तृणन्) अस्मै-आत्मने घृतैः सूक्ष्मै रसैस्तेजोमयैः सिञ्चन्ति बर्हणीयं स्तरं प्रसारयन्ति (आत्-इत्-होतारं-न्यसादयन्त) अनन्तरं रसादेर्ग्रहीतारमात्मानं निसादयन्ति नियतं कुर्वन्ति ॥६॥

    इस भाष्य को एडिट करें
    Top