ऋग्वेद मण्डल - 3 के सूक्त 22 के मन्त्र
1 2 3 4 5
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 22/ मन्त्र 1
    ऋषि: - गाथी कौशिकः देवता - पुरीष्या अग्नयः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    अ॒यं सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः। स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः॥

    स्वर सहित पद पाठ

    अ॒यम् । सः । अ॒ग्निः । यस्मि॑न् । सोम॑म् । इन्द्रः॑ । सु॒तम् । द॒धे । ज॒ठरे॑ । वा॒व॒शा॒नः । स॒ह॒स्रिण॑म् । वाज॑म् । अत्य॑म् । न । सप्ति॑म् । स॒स॒वान् । सन् । स्तू॒य॒से॒ । जा॒त॒ऽवे॒दः॒ ॥


    स्वर रहित मन्त्र

    अयं सो अग्निर्यस्मिन्त्सोममिन्द्रः सुतं दधे जठरे वावशानः। सहस्रिणं वाजमत्यं न सप्तिं ससवान्त्सन्त्स्तूयसे जातवेदः॥

    स्वर रहित पद पाठ

    अयम्। सः। अग्निः। यस्मिन्। सोमम्। इन्द्रः। सुतम्। दधे। जठरे। वावशानः। सहस्रिणम्। वाजम्। अत्यम्। न। सप्तिम्। ससवान्। सन्। स्तूयसे। जातऽवेदः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 22; मन्त्र » 1
    अष्टक » 3; अध्याय » 1; वर्ग » 22; मन्त्र » 1

    पदार्थ -
    हे (जातवेदः) उत्तम विद्याधारी ! (यस्मिन्) जिसमें (अयम्) यह (अग्निः) बिजुली (सहस्रिणम्) असङ्ख्य पराक्रमयुक्त (वाजम्) वेग और (अत्यम्) व्यापक शीघ्र चलनेवाले वायु के (न) तुल्य (सप्तिम्) अग्निनामक अश्व को (दधे) धारण करता है उसमें (वावशानः) अत्यन्त कामना करनेवाला (इन्द्रः) जीवात्मा आप (जठरे) पेट की अग्नि में (सुतम्) उत्पन्न (सोमम्) पदार्थों के समूह के धारणकर्त्ता आप (ससवान्) विभागकारक (सन्) होकर (स्तूयसे) स्तुति करने योग्य हो ॥१॥

    भावार्थ -
    जो मनुष्य विद्या से अग्नि को चलावें, तो यह अग्नि हज़ारों घोड़ों के बल को धारण करता है ॥१॥

    अन्वयः -
    हे जातवेदो ! यस्मिन्नयमग्निः सहस्रिणं वाजमत्यं न सप्तिं दधे तस्मिन् वावशान इन्द्रो भवान् जठरे सुतं सोमन्दधे स त्वं ससवान् सन् स्तूयसे ॥१॥

    पदार्थः -
    (अयम्) (सः) (अग्निः) विद्युत् (यस्मिन्) (सोमम्) पदार्थसमूहम् (इन्द्रः) जीवः (सुतम्) निष्पन्नम् (दधे) धरति (जठरे) उदराग्नौ (वावशानः) भृशं कामयमानः (सहस्रिणम्) असङ्ख्यं बलं विद्यते यस्मिँस्तम् (वाजम्) वेगम् (अत्यम्) व्यापकं शीघ्रगामिनं वायुम् (न) इव (सप्तिम्) अग्न्याख्यमश्वम् (ससवान्) संभाजकः (सन्) (स्तूयसे) (जातवेदः) जातविद्य ॥१॥

    भावार्थः -
    यदि मनुष्या विद्ययाग्निं चालयेयुस्तर्ह्ययं सहस्राणामश्वानां बलन्धरति ॥१॥

    Meaning -
    This is that Agni, vital electric energy, in which Indra, lord of power and passion, thirsting for the joy of living, concentrates soma, essence of peace, power and joy, distilled and placed in the heat of the stomach, navel of the body system. O Jataveda, vital fire of energy present in everything that is born in the world of existence, holding and sharing a thousandfold power, moving and reaching anywhere like a tempestuous horse, you are loved and adored everywhere.

    भावार्थ -
    जी माणसे विद्येने अग्नीचा उपयोग करतात तेव्हा तो अग्नी हजारो घोड्यांचे बळ धारण करतो. ॥ १ ॥

    Top