Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 10 के मन्त्र
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 10/ मन्त्र 2
    सूक्त - अथर्वा देवता - शङ्खमणिः, कृशनः छन्दः - अनुष्टुप् सूक्तम् - शङ्खमणि सूक्त
    28

    यो अ॑ग्र॒तो रो॑च॒नानां॑ समु॒द्रादधि॑ जज्ञि॒षे। श॒ङ्खेन॑ ह॒त्वा रक्षां॑स्य॒त्त्रिणो॒ वि ष॑हामहे ॥

    स्वर सहित पद पाठ

    य: । अ॒ग्र॒त: । रो॒च॒नाना॑म् । स॒मु॒द्रात् । अधि॑ । ज॒ज्ञि॒षे । श॒ङ्खेन॑ । ह॒त्वा । रक्षां॑सि । अ॒त्त्रिण॑: । वि । स॒हा॒म॒हे॒ ॥१०.२॥

    स्वर रहित मन्त्र

    यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे। शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥

    स्वर रहित पद पाठ

    य: । अग्रत: । रोचनानाम् । समुद्रात् । अधि । जज्ञिषे । शङ्खेन । हत्वा । रक्षांसि । अत्त्रिण: । वि । सहामहे ॥१०.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 10; मन्त्र » 2
    Acknowledgment

    हिन्दी (1)

    विषय

    विघ्नों के हटाने के लिये उपदेश।

    पदार्थ

    (यः= यः त्वम्) जो तू (रोचनानाम्) प्रकाशमान लोकों के (अग्रतः) आगे और (समुद्रात्) जलसमूह समुद्र से भी (अधि) ऊपर [देश और काल में] (जज्ञिषे) प्रकट हुआ था, [उस तुझ] (शङ्खेन) सबों के विवेचन करनेवाले, वा देखनेवाले, वा शान्ति देनेवाले, परमेश्वर [के आश्रय] से (रक्षांसि) जिन से रक्षा की जावे उन राक्षसों को (हत्वा) मारकर (अत्रिणः) पेटार्थियों को (वि) विविध प्रकार से (सहामहे) हम दबाते हैं ॥२॥

    भावार्थ

    सर्वदा सर्वोपरि विराजमान परमेश्वर की महिमा और उपकारों को विचारकर, हम लोग कुव्यवहार से बचकर पुरुषार्थ के साथ आनन्द भोगें ॥२॥

    टिप्पणी

    २−(यः) हे शङ्ख यस्त्वम् (अग्रतः) अग्रे। आदौ (रोचनानाम्) अनुदात्तेतश्च हलादेः। पा० ३।२।१४९। इति रुच दीप्तौ-युच्। प्रकाशमानानां नक्षत्रादीनाम् (समुद्रात्) जलसमूहात् (अधि) उपरि देशे काले च (जज्ञिषे) जनी-लिट्। त्वं प्रादुर्बभूविथ (शङ्खेन) म० १। सर्वेषां विवेचकेन दर्शकेन शान्तिदायकेन वा परमेश्वरेण (हत्वा) नाशयित्वा (रक्षांसि) अ० १।२१।३। राक्षसान्। शत्रून् (अत्रिणः) अ० १।७।३। अद भक्षणे-त्रिनि। भक्षणशीलान्। उदरपोषकान् (वि) विशेषेण (सहामहे) अभिभवामः ॥

    इंग्लिश (1)

    Subject

    Shankha-mani

    Meaning

    By Shankha which arises from the sea in advance of the brilliant ones in quality, we destroy life¬ consuming evil elements of nature in the body system.

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    Top