अथर्ववेद - काण्ड 11/ सूक्त 2/ मन्त्र 24
तुभ्य॑मार॒ण्याः प॒शवो॑ मृ॒गा वने॑ हि॒ता हं॒साः सु॑प॒र्णाः श॑कु॒ना वयां॑सि। तव॑ य॒क्षं प॑शुपते अ॒प्स्वन्तस्तुभ्यं॑ क्षरन्ति दि॒व्या आपो॑ वृ॒धे ॥
स्वर सहित पद पाठतुभ्य॑म् । आ॒र॒ण्या: । प॒शव॑: । मृ॒गा: । वने॑ । हि॒ता: । हं॒सा: । सु॒ऽप॒र्णा: । श॒कु॒ना: । वयां॑सि । तव॑ । य॒क्षम् । प॒शु॒ऽप॒ते॒ । अ॒प्ऽसु । अ॒न्त: । तुभ्य॑म् । क्ष॒र॒न्ति॒ । दि॒व्या: । आप॑: । वृ॒धे ॥२.२४॥
स्वर रहित मन्त्र
तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि। तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥
स्वर रहित पद पाठतुभ्यम् । आरण्या: । पशव: । मृगा: । वने । हिता: । हंसा: । सुऽपर्णा: । शकुना: । वयांसि । तव । यक्षम् । पशुऽपते । अप्ऽसु । अन्त: । तुभ्यम् । क्षरन्ति । दिव्या: । आप: । वृधे ॥२.२४॥
अथर्ववेद - काण्ड » 11; सूक्त » 2; मन्त्र » 24
Translation -
It is due to the power of this fire that wild beasts and sylvan creatures placed in the forest and small birds, swans and eagles are living established. The substance of this fire is protecting creatures, found in the waters. The showers from sky come down to prove its glory.