अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 44
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - पराबृहती त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥
स्वर सहित पद पाठआ॒दि॒त्येभ्य॑: । अङ्गि॑र:ऽभ्य: । मधु॑ । इ॒दम् । घृ॒तेन॑ । मि॒श्रम् । प्रति॑ । वे॒द॒या॒मि॒ । शु॒ध्दऽह॑स्तौ । ब्रा॒ह्म॒णस्य॑ । अनि॑ऽहत्य । ए॒तम् । स्व॒:ऽगम् । सु॒ऽकृ॒तौ । अपि॑ । इ॒त॒म् ॥३.४४॥
स्वर रहित मन्त्र
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि। शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥
स्वर रहित पद पाठआदित्येभ्य: । अङ्गिर:ऽभ्य: । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि । शुध्दऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्व:ऽगम् । सुऽकृतौ । अपि । इतम् ॥३.४४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 44
Translation -
This honey-mixed with ghee is assigned for the learned known Adityas and Angirases I, the priest declare. The couple who are pure at hand and have acquired good by not causing any harm to the master of vedic speech and knowledge attain this state of Svarga, the happiness.