अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 51
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये। क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथोऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ॥
स्वर सहित पद पाठए॒षा । त्व॒चाम् । पुरु॑षे । सम् । ब॒भू॒व॒ । अन॑ग्ना: । सर्वे॑ । प॒शव॑: । ये । अ॒न्ये । क्ष॒त्रेण॑ । आ॒त्मान॑म् । परि॑ । ध॒प॒या॒थ॒: । अ॒मा॒ऽउ॒तम् । वास॑: । मुख॑म्। ओ॒द॒नस्य॑ ॥३.५१॥
स्वर रहित मन्त्र
एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये। क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥
स्वर रहित पद पाठएषा । त्वचाम् । पुरुषे । सम् । बभूव । अनग्ना: । सर्वे । पशव: । ये । अन्ये । क्षत्रेण । आत्मानम् । परि । धपयाथ: । अमाऽउतम् । वास: । मुखम्। ओदनस्य ॥३.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 51
Translation -
Man has received this skin which is tender one among other skins (as it has not hair upon it). The other animals are not naked (they have also skin covers). O man and women dress you with cloths. The cloth to cover the mouth of Odana oblation, he woven by yourselves.