अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 52
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
वेदिं॒ भूमिं॑ कल्पयि॒त्वा दिवं॑ कृ॒त्वा दक्षि॑णाम्। घ्रं॒सं तद॒ग्निं कृ॒त्वा च॒कार॒ विश्व॑मात्म॒न्वद्व॒र्षेणाज्ये॑न॒ रोहि॑तः ॥
स्वर सहित पद पाठवेदि॑म् । भूमि॑म् । क॒ल्प॒यि॒त्वा । दिव॑म् । कृ॒त्वा । दक्षि॑णाम् । घ्रं॒सम् । तत् । अ॒ग्निम् । कृ॒त्वा । च॒कार॑ । विश्व॑म् । आ॒त्म॒न्ऽवत् । व॒र्षेण॑ । आज्ये॑न। रोहि॑त: ॥१.५२॥
स्वर रहित मन्त्र
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम्। घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥
स्वर रहित पद पाठवेदिम् । भूमिम् । कल्पयित्वा । दिवम् । कृत्वा । दक्षिणाम् । घ्रंसम् । तत् । अग्निम् । कृत्वा । चकार । विश्वम् । आत्मन्ऽवत् । वर्षेण । आज्येन। रोहित: ॥१.५२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 52
Translation -
The All-creating Divinity making the earth Vedi and hea venly region as Dakshina, making heat (Ghransa) fire with rain as molten ghee creates the living creatures.