अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 5
मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑। मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ॥
स्वर सहित पद पाठमे॒धाम् । सा॒यम् । मे॒धाम् । प्रा॒त: । मे॒धाम् । म॒ध्यन्दि॑नम् । परि॑ । मे॒धाम् । सूर्य॑स्य । र॒श्मिऽभि॑: । वच॑सा । आ । वे॒श॒या॒म॒हे॒ ॥१०८.५॥
स्वर रहित मन्त्र
मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि। मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥
स्वर रहित पद पाठमेधाम् । सायम् । मेधाम् । प्रात: । मेधाम् । मध्यन्दिनम् । परि । मेधाम् । सूर्यस्य । रश्मिऽभि: । वचसा । आ । वेशयामहे ॥१०८.५॥
अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 5
Translation -
We cultivate into us the intelligence at eve, at morning and at the noon time. We attain it through speech and through the beams of the Knowledge of the Divinity.