अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - उपरिष्टाद्बृहती
सूक्तम् - यक्षविबर्हण
ऊ॒रुभ्यां॑ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम्। यक्ष्मं॑ भस॒द्यं श्रोणि॑भ्यां॒ भास॑दं॒ भंस॑सो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठऊ॒रुऽभ्या॑म् । ते॒ । अ॒ष्ठी॒वत्ऽभ्या॑म् । पार्ष्णि॑ऽभ्याम् । प्रऽप॑दाभ्याम् । यक्ष्म॑म् । भ॒स॒द्य᳡म् । श्रोणि॑ऽभ्याम् । भास॑दम् । भंस॑स: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.५॥
स्वर रहित मन्त्र
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम्। यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥
स्वर रहित पद पाठऊरुऽभ्याम् । ते । अष्ठीवत्ऽभ्याम् । पार्ष्णिऽभ्याम् । प्रऽपदाभ्याम् । यक्ष्मम् । भसद्यम् । श्रोणिऽभ्याम् । भासदम् । भंसस: । वि । वृहामि । ते ॥३३.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 5
भाषार्थ -
(ऊरुभ्याम्) दो पट्टों से, (ते) तेरे (अष्टीवद्भ्याम्) दो घुटनों से, (पार्ष्णिभ्याम्) पैरों के पिछले दो भागों से, (प्रपदाभ्याम्) पैरों के दो अग्र भागों से, (श्रोणिभ्याम्) कटि के नीचे के दो भागों से, (भंसस:) गुह्य प्रदेश से, (भसद्यम्) कटि में हुए, (भासदम्) तथा गुह्य प्रदेश में हुए, (ते यक्ष्मम्) तेरे यक्ष्मरोग को (विवृहामि) मैं निकाल देता हूँ।