अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - यक्षविबर्हण
अङ्गेअ॑ङ्गे॒ लोम्नि॑लोम्नि॒ यस्ते॒ पर्व॑णिपर्वणि। यक्ष्मं॑ त्वच॒स्यं॑ ते व॒यं क॒श्यप॑स्य वीब॒र्हेण॒ विष्व॑ञ्चं॒ वि वृ॑हामसि ॥
स्वर सहित पद पाठअङ्गे॑ऽअङ्गे । लोम्नि॑ऽलोम्नि । य: । ते॒ । पर्व॑णिऽपर्वणि । यक्ष्म॑म् । त्व॒च॒स्य᳡म् । ते॒ । व॒यम् । क॒श्यप॑स्य । वि॒ऽब॒र्हेण॑ । विष्व॑ञ्चम् । वि । वृ॒हा॒म॒सि॒ ॥३३.७॥
स्वर रहित मन्त्र
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि। यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥
स्वर रहित पद पाठअङ्गेऽअङ्गे । लोम्निऽलोम्नि । य: । ते । पर्वणिऽपर्वणि । यक्ष्मम् । त्वचस्यम् । ते । वयम् । कश्यपस्य । विऽबर्हेण । विष्वञ्चम् । वि । वृहामसि ॥३३.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 7
भाषार्थ -
(अङ्गे अङ्गे) अङ्ग-अङ्ग में, (लोम्नि लोम्नि) रोम-रोम में, (पर्वणिपर्वणि) शरीर के जोड-जोड में, (ते) तेरा ( य: ) जो (त्वचस्यं यक्ष्म) त्वचा-सम्बन्धी यक्ष्म है, (ते) तेरे (विश्वञ्चम) समस्त अङ्गों में व्यापी उस यक्ष्म को (कश्यपस्य) द्रष्टा के (वीवर्हेण) छेदक [रश्मिसमूह] द्वारा (वि वृहामसि) हम [वैद्य] निकाल देते हैं। यह "त्वचस्य यक्ष्म" है।
टिप्पणी -
[कश्यपस्य= पश्यतीति१ कश्यपः, सूर्य जोकि उदित होकर भूमि आदि का दर्शन करता है। यथा "परीवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च। मा मा प्रापन्निषवो दैव्या या मा मानुषीरवसृष्टा वधाय" (अथर्व० १७।१।२८) अर्थात् ब्रह्मरूपी कवच से घिरा हुआ तथा कश्यप की ज्योति तथा दीप्ति।] [१. विपर्यय विधि द्वारा। निर्वचन पञ्चविधिक होता है। यथा "वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ। धातोस्तदर्यातिशयेन योगः" इति।]