Loading...
अथर्ववेद > काण्ड 4 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 24/ मन्त्र 5
    सूक्त - मृगारः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    यस्य॒ जुष्टिं॑ सो॒मिनः॑ का॒मय॑न्ते॒ यं हव॑न्त॒ इषु॑मन्तं॒ गवि॑ष्टौ। यस्मि॑न्न॒र्कः शि॑श्रि॒ये यस्मि॒न्नोजः॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    यस्य॑ । जुष्टि॑म् । सो॒मिन॑: । का॒मय॑न्ते । यम् । हव॑न्ते । इषु॑ऽमन्तम् । गोऽइ॑ष्टौ । यस्मि॑न् । अ॒र्क: । शि॒श्रि॒ये । यस्मि॑न् । ओज॑: । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२४.५॥


    स्वर रहित मन्त्र

    यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ। यस्मिन्नर्कः शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    यस्य । जुष्टिम् । सोमिन: । कामयन्ते । यम् । हवन्ते । इषुऽमन्तम् । गोऽइष्टौ । यस्मिन् । अर्क: । शिश्रिये । यस्मिन् । ओज: । स: । न: । मुञ्चतु । अंहस: ॥२४.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 24; मन्त्र » 5

    भाषार्थ -
    (सोमिनः) सोमयज्ञ करनेवाले (यस्य जुष्टिम्) जिसकी प्रीति की (कामयन्ते) कामना करते हैं, (गविष्टौ) जल प्राप्ति की इच्छा में, (इषुमन्तम्) वज्रधारी (यम्) जिस इन्द्र अर्थात् अन्तरिक्षीय विद्युत् का (हवन्ते) आह्वान करते हैं; (यस्मिन्) जिसमें (अर्कः) अर्चना का साधनभूत मन्त्रसमूह तथा सूर्य (शिश्रिये) आश्रय पाये हुए हैं, (यस्मिन्) जिसमें (ओज:) सब ओज आश्रय पाये हुए हैं, (सः) वह (न:) हमें (अंहसः: मुञ्चतु) पाप से छुड़ाए।

    इस भाष्य को एडिट करें
    Top