अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 17
सूक्त - अथर्वा
देवता - तता महापितरगणः
छन्दः - त्रिपदा विराट्शक्वरी
सूक्तम् - ब्रह्मकर्म सूक्त
त॒तस्त॑ताम॒हास्ते॑ मावन्तु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठत॒त: । त॒ता॒म॒हा: । ते । मा॒ । अ॒व॒न्तु॒ । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१७॥
स्वर रहित मन्त्र
ततस्ततामहास्ते मावन्तु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठतत: । ततामहा: । ते । मा । अवन्तु । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१७॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 17
भाषार्थ -
(ततः तताः) तात आदि (मन्त्र १६), तथा (ततामहाः) तात आदि के पिता आदि, (तेमा अवन्तु) वे मेरी रक्षा करें। (अस्मिन् ब्रह्मणि) इस वेदज्ञान की प्राप्ति में, (अस्मिन् कर्मणि) इस वैदिक कर्म में, (अस्याम् पुरोधायाम्) इस संमुख-स्थापित अभिलाषा की पूर्ति में, (अस्याम् प्रतिष्ठायाम् ) इस दृढ़ स्थिति में, (अस्याम्, चित्त्याम्) इस स्मृतिशक्ति में, (अस्याम् आकूत्याम् ) इस संकल्प में, (अस्याम् आशिष्यस्याम्) इस आशा की पूर्ति में, (देवहूत्याम्) दिव्यगुणों या विद्वानों के आह्वान में, (स्वाहा) यह उत्तम कथन हुआ है।
टिप्पणी -
[तताः, ततः 'तन्' धातु के रूप हैं, जिसका अर्थ है विस्तार। 'सन्तान' पद में भी 'तन्' धातु है। सन्तानें पूर्व पुरुषों का विस्ताररूप होती हैं, उनके वीर्य का विस्तार रूप ही होती हैं।]