Loading...
अथर्ववेद > काण्ड 6 > सूक्त 140

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 140/ मन्त्र 2
    सूक्त - अथर्वा देवता - ब्रह्मणस्पतिः छन्दः - उपरिष्टाज्ज्योतिष्मती त्रिष्टुप् सूक्तम् - सुमङ्गलदन्त सूक्त

    व्री॒हिम॑त्तं॒ यव॑मत्त॒मथो॒ माष॒मथो॒ तिल॑म्। ए॒ष वां॑ भा॒गो निहि॑तो रत्न॒धेया॑य दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥

    स्वर सहित पद पाठ

    व्री॒हिम् । अ॒त्त॒म् । यव॑म् । अ॒त्त॒म् । अथो॒ इति॑ । माष॑म् । अथो॒ इति॑ । तिल॑म् । ए॒ष: । वा॒म् । भा॒ग: । निऽहि॑त: । र॒त्न॒ऽधेया॑य । द॒न्तौ॒ । मा । हिं॒सि॒ष्ट॒म् । पि॒तर॑म्। मा॒तर॑म् । च॒ ॥१४०.२॥


    स्वर रहित मन्त्र

    व्रीहिमत्तं यवमत्तमथो माषमथो तिलम्। एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥

    स्वर रहित पद पाठ

    व्रीहिम् । अत्तम् । यवम् । अत्तम् । अथो इति । माषम् । अथो इति । तिलम् । एष: । वाम् । भाग: । निऽहित: । रत्नऽधेयाय । दन्तौ । मा । हिंसिष्टम् । पितरम्। मातरम् । च ॥१४०.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 140; मन्त्र » 2

    भाषार्थ -
    [हे दो दान्तो !] (व्रीहिम्, अत्तम्) चावल खाओ, (यवम्, अत्तम्) जौं खाओ, (अथो) और (माषम्) माष को, (अथो) और (तिलम्) तिल को खाओ। (दन्तौ) हे दो दान्तो ! (रत्नधेयाय) रमणीय फल को धारण करने के लिये, (वाम्) तुम दो के लिये, (एषः, भागः) यह भाग (निहितः) स्थापित किया है, (पितरम्, मातरम् च) और पितृशक्ति सम्पन्न तथा मातृशक्ति सम्पन्न प्राणियों की (मा हिंसिष्टम्) [खाने के लिये] हिंसा न करो।

    इस भाष्य को एडिट करें
    Top