अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 4
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
आप॑स्पुत्रासो अ॒भि सं वि॑शध्वमि॒मं जी॒वं जी॑वधन्याः स॒मेत्य॑। तासां॑ भजध्वम॒मृतं॒ यमा॒हुर्यमो॑द॒नं पच॑ति वां॒ जनि॑त्री ॥
स्वर सहित पद पाठआप॑:। पु॒त्रा॒स॒: । अ॒भि । सम् । वि॒श॒ध्व॒म् । इ॒मम् । जी॒वम् । जी॒व॒ऽध॒न्या॒: स॒म्ऽएत्य॑ । तासा॑म् । भ॒ज॒ध्व॒म् । अ॒मृत॑म् । यम् । आ॒हु: । यम् । ओ॒द॒नम् । पच॑ति । वा॒म् । जनि॑त्री ॥३.४॥
स्वर रहित मन्त्र
आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य। तासां भजध्वममृतं यमाहुर्यमोदनं पचति वां जनित्री ॥
स्वर रहित पद पाठआप:। पुत्रास: । अभि । सम् । विशध्वम् । इमम् । जीवम् । जीवऽधन्या: सम्ऽएत्य । तासाम् । भजध्वम् । अमृतम् । यम् । आहु: । यम् । ओदनम् । पचति । वाम् । जनित्री ॥३.४॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 4
Translation -
O sons, praiseworthy among the mortals, associating yourselves with this soul, live in the company of the learned, mixing freely with them. In their midst serve the Immortal God, Whom the learned call the Rainer of joy, whom your Mother Nature pronounces as Firm and Established!