अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 25
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
पू॒ताः प॒वित्रैः॑ पवन्ते अ॒भ्राद्दिवं॑ च॒ यन्ति॑ पृथि॒वीं च॑ लो॒कान्। ता जी॑व॒ला जी॒वध॑न्याः प्रति॒ष्ठाः पात्र॒ आसि॑क्ताः॒ पर्य॒ग्निरि॑न्धाम् ॥
स्वर सहित पद पाठपू॒ता: । प॒वित्रै॑: । प॒व॒न्ते॒ । अ॒भ्रात् । दिव॑म् । च॒ । यन्ति॑ । पृ॒थि॒वीम् । च॒ । लो॒कान् । ता: । जी॒व॒ला: । जी॒वऽध॑न्या: । प्र॒ति॒ऽस्था: । पात्रे॑ । आऽसि॑क्ता: । परि॑ । अ॒ग्नि: । इ॒न्धा॒म् ॥३.२६॥
स्वर रहित मन्त्र
पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान्। ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥
स्वर रहित पद पाठपूता: । पवित्रै: । पवन्ते । अभ्रात् । दिवम् । च । यन्ति । पृथिवीम् । च । लोकान् । ता: । जीवला: । जीवऽधन्या: । प्रतिऽस्था: । पात्रे । आऽसिक्ता: । परि । अग्नि: । इन्धाम् ॥३.२६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 25
Translation -
Purified through virtuous deeds, they purify others through various devices. They acquire love for conquest, vast knowledge, and beautiful houses. Enjoying long life, being foremost among men, absorbed in God, they attain to fame. The Refulgent God, bestowing knowledge on them, makes them shine on every side.
Footnote -
They : Noble persons, devotees of God.