अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म सूक्त
सु॒खं सू॑र्य॒ रथ॑मंशु॒मन्तं॑ स्यो॒नं सु॒वह्नि॒मधि॑ तिष्ठ वा॒जिन॑म्। यं ते॒ वह॑न्ति ह॒रितो॒ वहि॑ष्ठाः श॒तमश्वा॒ यदि॑ वा स॒प्त ब॒ह्वीः ॥
स्वर सहित पद पाठसु॒ऽखम् । सूर्य॑ । रथ॑म् । अं॒शु॒ऽमन्त॑म् । स्यो॒नम् । सु॒ऽवह्नि॑म् । अधि॑ । ति॒ष्ठ॒ । वा॒जिन॑म् । यम् । ते॒ । वह॑न्ति । ह॒रित॑: । वहि॑ष्ठा: । श॒तम् । अश्वा॑: । यदि॑ । वा॒ । स॒प्त । ब॒ह्वी: ॥2.७॥
स्वर रहित मन्त्र
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम्। यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥
स्वर रहित पद पाठसुऽखम् । सूर्य । रथम् । अंशुऽमन्तम् । स्योनम् । सुऽवह्निम् । अधि । तिष्ठ । वाजिनम् । यम् । ते । वहन्ति । हरित: । वहिष्ठा: । शतम् । अश्वा: । यदि । वा । सप्त । बह्वी: ॥2.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 7
Translation -
O soul, mount this body, coupled with the organs of cognition and action, which is beautiful, comfortable, which easily takes thee from one place to the other, and is full of strength. Thou art supported by hundreds of attractive, active mental forces, arteries of the heart, and seven vital breaths.