अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 22
सूक्त - ब्रह्मा
देवता - यक्ष्मनाशनम्
छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्
सूक्तम् - सूक्त-९६
अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्मं॑ पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒स्थिभ्य॑: । ते॒ । म॒ज्जऽभ्य॑: । स्नाव॑ऽभ्य: । ध॒मनि॑ऽभ्य: ॥ यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्य: । न॒खेभ्य॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥९६.२२॥
स्वर रहित मन्त्र
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥
स्वर रहित पद पाठअस्थिभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: ॥ यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥९६.२२॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 22
Translation -
See Atha, 2.33. 7.