अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 11
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑। तम॒र्चिषा॑ स्फूर्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि यु॑ङ्ग्धि ॥
स्वर सहित पद पाठत्रि: । या॒तु॒ऽधान॑: । प्रऽसि॑तिम् । ते॒ । ए॒तु॒। ऋ॒तम् । य: । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवेद: । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । यु॒ङ्ग्धि॒ ॥३.११॥
स्वर रहित मन्त्र
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति। तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥
स्वर रहित पद पाठत्रि: । यातुऽधान: । प्रऽसितिम् । ते । एतु। ऋतम् । य: । अग्ने । अनृतेन । हन्ति । तम् । अर्चिषा । स्फूर्जयन् । जातऽवेद: । सम्ऽअक्षम् । एनम् । गृणते । नि । युङ्ग्धि ॥३.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 11
Translation -
Thrice, O King, let thy noose surround the demon who with his false hood injures truth. Roaring loud with thy strength. O King, fetter him in the presence of all, for the good of him who praises God.
Footnote -
Thrice' means three times, again and again, or in three parts of the body, the lower, middle and upper, i.e., feet, legs, hands.