अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 21
सूक्त - चातनः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजो॒ येन॒ पश्य॑सि यातु॒धाना॑न्। अ॑थर्व॒वज्ज्योति॑षा॒ दैव्ये॑न स॒त्यं धूर्व॑न्तम॒चितं॒ न्योष ॥
स्वर सहित पद पाठतत् । अ॒ग्ने॒ । चक्षु॑: । प्रति॑ । धे॒हि॒ । रे॒भे । श॒फ॒ऽआ॒रुज॑: । येन॑ । पश्य॑सि । या॒तु॒ऽधाना॑न् । अ॒थ॒र्व॒ऽवत् । ज्योति॑षा । दैव्ये॑न । स॒त्यम् । धूर्व॑न्तम् । अ॒चित॑म् । नि । ओ॒ष॒ ॥३.२१॥
स्वर रहित मन्त्र
तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान्। अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥
स्वर रहित पद पाठतत् । अग्ने । चक्षु: । प्रति । धेहि । रेभे । शफऽआरुज: । येन । पश्यसि । यातुऽधानान् । अथर्वऽवत् । ज्योतिषा । दैव्येन । सत्यम् । धूर्वन्तम् । अचितम् । नि । ओष ॥३.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 21
Translation -
Lend thou the garrulous prattler that eye, O King, wherewith thou lookest on the demons, who revile and defame others. Like a non-violent sage, with wise light of the learned, burn up the fool who ruins truth with falsehood!