Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 10/ मन्त्र 8
    ऋषिः - वरुण ऋषिः देवता - यजमानो देवता छन्दः - कृति, स्वरः - निषादः
    7

    क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्रघ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒ त्वया॒यं वृ॒त्रं व॑धेत्। दृ॒वासि॑ रु॒जासि॑ क्षु॒मासि॑। पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं॒ प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त॥८॥

    स्वर सहित पद पाठ

    क्ष॒त्रस्य॑। उल्ब॑म्। अ॒सि॒। क्ष॒त्रस्य॑। ज॒रायु॑। अ॒सि॒। क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। इन्द्र॑स्य। वार्त्र॑घ्न॒मिति वार्त्र॑ऽघ्नम्। अ॒सि॒। मि॒त्रस्य॑। अ॒सि॒। वरु॑णस्य। अ॒सि॒। त्वया॑। अ॒यम्। वृ॒त्रम्। व॒धे॒त्। दृ॒वा। अ॒सि॒। रु॒जा। अ॒सि॒। क्षु॒मा। अ॒सि॒। पा॒त। ए॒न॒म्। प्राञ्च॑म्। पा॒त। ए॒न॒म्। प्र॒त्यञ्च॑म्। पा॒त। ए॒न॒म्। ति॒र्यञ्च॑म्। दि॒ग्भ्य इति॑ दि॒क्ऽभ्यः पा॒त॒ ॥८॥


    स्वर रहित मन्त्र

    क्षत्रस्योल्वमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसीन्द्रस्य वात्रघ्नमसी मित्रस्यासि वरुणस्यासि त्वयायँवृत्रँवधेत् । दृवासि रुजासि क्षुमासि । पातैनम्प्राञ्चम्पातैनम्प्रत्यञ्चम्पातैन्तिर्यञ्चन्दिग्भ्यः पात ॥


    स्वर रहित पद पाठ

    क्षत्रस्य। उल्बम्। असि। क्षत्रस्य। जरायु। असि। क्षत्रस्य। योनिः। असि। क्षत्रस्य। नाभिः। असि। इन्द्रस्य। वार्त्रघ्नमिति वार्त्रऽघ्नम्। असि। मित्रस्य। असि। वरुणस्य। असि। त्वया। अयम्। वृत्रम्। वधेत्। दृवा। असि। रुजा। असि। क्षुमा। असि। पात। एनम्। प्राञ्चम्। पात। एनम्। प्रत्यञ्चम्। पात। एनम्। तिर्यञ्चम्। दिग्भ्य इति दिक्ऽभ्यः पात॥८॥

    यजुर्वेद - अध्याय » 10; मन्त्र » 8
    Acknowledgment

    अन्वयः - हे राजन्! यस्त्वं क्षत्रस्योल्बमसि क्षत्रस्य जराय्वसि क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसीन्द्रस्य वार्त्रघ्नमसि मित्रस्य मित्रोऽसि वरुणस्य वरोऽसि दृवासि रुजासि क्षुमासि, यस्त्वया सह वृत्रं वधेत्, तमेनं प्राञ्चं सर्वे यूयं दिग्भ्यः पात, तमेनं प्रत्यञ्चं पात तमेनं तिर्य्यञ्चं पात॥८॥

    पदार्थः -
    (क्षत्रस्य) राजकुलस्य (उल्बम्) बलम् (असि) (क्षत्रस्य) क्षत्रियस्य (जरायु) वृद्धावस्थाप्रापकम् (असि) (क्षत्रस्य) राजन्यस्य (योनिः) निमित्तम् (असि) (क्षत्रस्य) राज्यस्य (नाभिः) बन्धनम् (असि) (इन्द्रस्य) सूर्यस्य (वार्त्रघ्नम्) मेघविनाशकम् (असि) (मित्रस्य) सुहृदः (असि) (वरुणस्य) श्रेष्ठस्य (असि) (त्वया) राज्ञा (अयम्) वीरः (वृत्रम्) मेघमिव न्यायावरकं शत्रुम् (वधेत्) हन्यात् (दृवा) यः शत्रून् दृणाति, अत्र अन्येभ्योऽपि दृश्यन्ते। (अष्टा॰३।२।७५) इति क्वनिप् (असि) (रुजा) शत्रूणां रोगकारकः, अत्रौणादिकः कनिन् (असि) (क्षुमा) सत्योपदेशकः, अत्रौणादिको मनिन् किच्च (असि) (पात) रक्षत (एनम्) राजानम् (प्राञ्चम्) प्राक्प्रबन्धस्य कर्त्तारम् (पात) (एनम्) सेनाध्यक्षम् (प्रत्यञ्चम्) पश्चात् स्थितम् (पात) (एनम्) पार्श्वस्थं वीरम् (तिर्य्यञ्चम्) तिरश्चीनम् (दिग्भ्यः) सर्वाभ्य आशाभ्यः (पात)॥ अयं मन्त्रः (शत॰ ५। ३। ५। २०-३०) व्याख्यातः॥८॥

    भावार्थः - यत्पुत्रीपुत्रेषु स्त्रीनरेषु च विद्यावर्धनं कर्मास्ति, तदेव राज्यवर्धकं शत्रुविनाशकं धर्मादिप्रवर्त्तकं च भवति। अनेनैव सर्वेषु कालेषु सर्वासु दिक्षु रक्षणं भवति॥८॥

    इस भाष्य को एडिट करें
    Top