यजुर्वेद - अध्याय 2/ मन्त्र 2
ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः
देवता - यज्ञो देवता
छन्दः - स्वराट् जगती,
स्वरः - निषादः
11
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पोऽस्यूर्ण॑म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒ भुवन॑पतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑॥२॥
स्वर सहित पद पाठअदि॑त्यै। व्युन्द॑न॒मिति॑। वि॒ऽउन्द॑नम्। अ॒सि॒। विष्णोः॑। स्तु॒पः। अ॒सि॒। ऊर्ण॑म्रदस॒मित्यूर्ण॑ऽम्रदसम्। त्वा॒। स्तृ॒णा॒मि॒। स्वा॒स॒स्थामिति॑ सुऽआ॒स॒स्थाम्। दे॒वेभ्यः॑। भुवप॑तय॒ इति॒ भुव॑ऽपतये। स्वाहा॑। भुव॑नपतय॒ इति॒ भुव॑नऽपतये। स्वाहा॑। भू॒ताना॑म्। पत॑ये स्वाहा॑ ॥२॥
स्वर रहित मन्त्र
अदित्यै व्युन्दनमसि विष्णो स्तुपोऽस्यूर्णम्रदसन्त्वा स्तृणामि स्वासस्थां देवेभ्यो भुवपतये स्वाहा भुवनपतये स्वाहा भूतानांम्पतये स्वाहा ॥
स्वर रहित पद पाठ
अदित्यै। व्युन्दनमिति। विऽउन्दनम्। असि। विष्णोः। स्तुपः। असि। ऊर्णम्रदसमित्यूर्णऽम्रदसम्। त्वा। स्तृणामि। स्वासस्थामिति सुऽआसस्थाम्। देवेभ्यः। भुवपतय इति भुवऽपतये। स्वाहा। भुवनपतय इति भुवनऽपतये। स्वाहा। भूतानाम्। पतये स्वाहा॥२॥
विषयः - एवं कृतो यज्ञः किंहेतुको भवतीत्युपदिश्यते॥
अन्वयः - यतोऽयं विष्णुर्यज्ञोऽदित्या व्युन्दनकार्य्यसि भवति, तस्मात् तमहमनुतिष्ठामि। अस्य विष्णोर्यज्ञस्य स्तुपः प्रस्तर उलूखलाख्यः साधकोऽ(स्य)स्ति, तस्मात् तमहमूर्णम्रदसं स्तृणामि। वेदिर्देवेभ्यो हितासि भवति, तस्मात् तामहं स्वासस्थां रचयामि। कस्मै प्रयोजनायेत्यत्राह। यतोऽयं भुवपतिर्भुवनपतिर्भूतानां पतिरीश्वरः प्रसन्नो भवति, भौतिको वा। सुखसाधको भवति, तस्मै भुवपतये स्वाहा विधेया, भुवनपतये स्वाहा वाच्या, भूतानां च पतये स्वाहा प्रयोज्या भवतीत्यस्मै प्रयोजनाय॥२॥
पदार्थः -
(अदित्यै) पृथिव्याः। अत्र ‘चतुर्थ्यर्थे बहुलं छन्दसि’ (अष्टा॰२.३.६२) इति षष्ठ्यर्थे चतुर्थी (व्युन्दनम्) विविधानामोषध्यादीनामुन्दनं क्लेदनं येन तत् (असि) भवति। अत्र सर्वत्र व्यत्ययः (विष्णोः) यज्ञस्य (स्तुपः) शिखा। यज्ञो वै विष्णुस्तस्येयमेव शिखा स्तुपः (शत॰१.३.३.५) (असि) अस्ति (ऊर्णम्रदसम्) ऊर्णानि धान्याच्छादनानि तुषाणि म्रदयति येन तं पाषाणमयम् (त्वा) तम् (स्तृणामि) आच्छादयामि (स्वासस्थाम्) सुष्ठु आसाः प्रक्षिप्तास्तिष्ठन्ति यस्यां सा वेदिस्ताम्। अत्र घञर्थे कविधानम् (अष्टा॰३.३.५८) इति वार्त्तिकेन कः प्रत्ययः (देवेभ्यः) विद्वद्भ्यो दिव्यसुखेभ्यो वा (भुवपतये) भवन्त्युत्पद्यन्ते भूतानि यस्मिन् संसारे तस्य पतिस्तस्मै जगदीश्वराय। आहवनीयाख्याग्नये वा। अत्र बाहुलकाद् भूधातोरौणादिकः कः प्रत्ययः (स्वाहा) सत्यभाषणयुक्ता वाक्। स्वाहेति वाङ्नामसु पठितम् (निघं॰१.११) स्वाहाशब्दस्यार्थं निरुक्तकार एवं समाचष्टे। स्वाहाकृतयः स्वाहेत्येतत् सु आहेति वा, स्वा वागाहेति, वा स्वं प्राहेति वा, स्वाहुतं हविर्जुहोतीति वा (निरु॰८.२०) यत् शोभनं वचनं सत्यकथनं स्वपदार्थान् प्रति ममत्ववचो मन्त्रोच्चारणेन हवनं चेति स्वाहाशब्दार्था विज्ञेयाः (भुवनपतये) भुवनानां सर्वेषां लोकानां पतिः। पालक ईश्वरः। पालनहेतुर्भौतिको वा तस्मै (स्वाहा) उक्तार्थः (भूतानां पतये) भूतान्युत्पन्नानि यावन्ति वस्तूनि सन्ति तेषां यः पतिः स्वामीश्वर ऐश्वर्य्यहेतुर्भौतिको वा तस्मै (स्वाहा) उक्तार्थः। अयं मन्त्रः (शत॰१.३.३.४-२०) व्याख्यातः॥२॥
भावार्थः - ईश्वरः सर्वमनुष्येभ्य इदमुपदिशति युष्माभिर्वेद्यादीनि यज्ञसाधनानि सम्पाद्य सर्वप्राणिनां सुखाय परमेश्वरप्रीतये च सम्यक् क्रियायज्ञः कार्य्यः। सदैव सत्यमेव वाच्यम्। यथाऽहं न्यायेन सर्वं विश्वं पालयामि, तथैव युष्माभिरपि पक्षपातं विहाय सर्वेषां पालनेन सुखं सम्पादनीयमिति॥२॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal