यजुर्वेद - अध्याय 2/ मन्त्र 31
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम्। अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत॥३१॥
स्वर सहित पद पाठअत्र॑। पि॒त॒रः॒। मा॒द॒य॒ध्व॒म्। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। वृ॒षा॒य॒ध्व॒म्। वृ॒षा॒य॒ध्व॒मिति॑ वृषऽयध्वम्। अमी॑मदन्त। पि॒तरः॑। य॒था॒भा॒गमिति॑ यथाऽभा॒गम्। आ। अ॒वृ॒षा॒यि॒ष॒त॒ ॥३१॥
स्वर रहित मन्त्र
अत्र पितरो मादयध्वँयथाभागमा वृषायध्वम् । अमीमदन्त पितरो यथाभागमा वृषायिषत ॥
स्वर रहित पद पाठ
अत्र। पितरः। मादयध्वम्। यथाभागमिति यथाऽभागम्। आ। वृषायध्वम्। वृषायध्वमिति वृषऽयध्वम्। अमीमदन्त। पितरः। यथाभागमिति यथाऽभागम्। आ। अवृषायिषत॥३१॥
विषयः - मनुष्यैर्धार्मिकाः ज्ञानिनो विद्वांसः कथं सत्कर्तव्या इत्युपदिश्यते॥
अन्वयः - हे पितरो! यूयमत्र यथाभागमावृषायध्वम्। मादयध्वमस्मान् यथाभागमावृषायिषतामीमदन्तास्मान् हर्षयत॥३१॥
पदार्थः -
(अत्र) अस्माकं सत्कारसंयुक्ते व्यवहारे स्थाने वा (पितरः) पान्ति पालयन्ति सद्विद्याशिक्षाभ्यां ये ते तत्संबुद्धौ (मादयध्वम्) हर्षयध्वम् (यथाभागम्) भागमनतिक्रम्य कुर्वन्तीति यथाभागम् (आ) समन्तात् (वृषायध्वम्) आनन्दसेक्तारो वृषा इवाचरत। कर्त्तुः क्यङ् सलोपश्च (अष्टा॰३.१.११) अनेन क्यङ् प्रत्ययः। (अमीमदन्त) आनन्दयतास्मान् मोदयत, विद्यां ज्ञापयत वा (पितरः) विद्वांसो विद्यादानेन रक्षकाः (यथाभागम्) भागं भागं प्रतीति यथाभागम्। अत्र वीप्सार्थे प्रतिः। (आ) आभिमुख्यतया (अवृषायिषत) विद्याधर्मशिक्षया हर्षकारका भवत। लोडर्थे लुङ्॥ अयं मन्त्रः (शत॰२.४.२.१९-२३) व्याख्यातः॥३१॥
भावार्थः - ईश्वर आज्ञापयति-मातापित्रादीन् विदुषोऽध्यापकान् धार्मिकान् पितॄन् समीपस्थानागच्छतश्च दृष्ट्वैवं वाच्यं सेवनं च कार्य्यम्-हे अस्मत्पितरो! यूयं स्वागतमागच्छतास्मद्विषये यथायोग्यान् भोगानासनादींश्चेमानस्मद्दत्तान् स्वीकृत्य सुखयत यद्यदाऽऽवश्यकं युष्माकमिष्टं वस्त्वस्माभिरानेतुं योग्यं तदाज्ञापयत। एवमत्राऽस्माभिः सत्कृताः सन्तो भवन्तः प्रश्नोत्तरविधानेनाऽस्मान् स्थूलसूक्ष्मविद्याधर्मोपदेशेन यथावद् वर्द्धयन्तु। युष्मद्वर्द्धिता वयं नित्यं सत्क्रियाः कृत्वाऽन्यैः कारयित्वा च सर्वेषां प्राणिनां सुखविद्योन्नतीः नित्यं कुर्य्यामेति॥३१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal