Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 25
    ऋषिः - वामदेव ऋषिः देवता - सत्रस्य विष्णुर्देवता छन्दः - निचृत् आर्ची पङ्क्ति,आर्ची पङ्क्ति,भूरिक् जगती, स्वरः - पञ्चमः , निषाद
    10

    दि॒वि विष्णु॒र्व्यक्रꣳस्त॒ जाग॑तेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्यक्रꣳस्त॒ त्रैष्टु॑भेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः। पृ॑थि॒व्यां विष्णु॒र्व्यक्रꣳस्त गाय॒त्रेण॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ऽअग॑न्म॒ स्वः] सं ज्योति॑षाभूम॥२५॥

    स्वर सहित पद पाठ

    दि॒वि। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। जाग॑तेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒न्तरि॑क्षे। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। पृ॒थि॒व्याम्। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। गा॒य॒त्रेण॑। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒स्मात्। अन्ना॑त्। अ॒स्यै। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। अग॑न्म। स्व॒रिति॒ स्वः᳕। सम्। ज्योति॑षा। अ॒भू॒म॒ ॥२५॥


    स्वर रहित मन्त्र

    दिवि विष्णुर्व्यक्रँस्त जागतेन छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मोन्तरिक्षे विष्णुर्व्यक्रँस्त त्रैषटुभेन छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मः पृथिव्याँ विष्णुर्व्यक्रँस्त गायत्रेण छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मोस्मादन्नादस्यै प्रतिष्ठायाऽअगन्म स्वः सञ्ज्योतिषाभूम ॥


    स्वर रहित पद पाठ

    दिवि। विष्णुः। वि। अक्रꣳस्त। जागतेन। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। अन्तरिक्षे। विष्णुः। वि। अक्रꣳस्त। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैस्तुभेन। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। पृथिव्याम्। विष्णुः। वि। अक्रꣳस्त। गायत्रेण। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। अस्मात्। अन्नात्। अस्यै। प्रतिष्ठायै। प्रतिस्थाया इति प्रतिऽस्थायै। अगन्म। स्वरिति स्वः। सम्। ज्योतिषा। अभूम॥२५॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 25
    Acknowledgment

    अन्वयः - अस्माभिर्जागतेन छन्दसाऽनुष्ठितोऽयं विष्णुर्यज्ञो दिवि व्यक्रंस्त स पुनस्ततो निर्भक्तः सन् छन्दसा सर्वं जगत् प्रीणाति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निराकुर्मः। अस्माभिर्योऽयं यज्ञस्त्रैष्टुभेन छन्दसाऽग्नौ प्रयोजितेऽन्तरिक्षे व्यक्रꣳस्त स पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निवारयामः। अस्माभिर्योऽयं विष्णुर्यज्ञो गायत्रेण छन्दसा पृथिव्यामनुष्ठीयते, स पृथिव्यां व्यक्रंस्त स ततो निर्भक्तः सन् पृथिवीस्थान् पदार्थान् पोषयति। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निषिध्यामः। वयमस्मादन्नात् स्वरगन्म। वयमनेन यज्ञेनास्यै प्रतिष्ठायै ज्योतिषा संयुक्ताः समभूम भवेम॥२५॥

    पदार्थः -
    (दिवि) सूर्य्यप्रकाशे (विष्णुः) यो वेवेष्टि व्याप्नोत्यन्तरिक्षस्थलवाय्वादिपदार्थान् स यज्ञः। यज्ञो वै विष्णुः (शत॰१.१.२.१३) (वि) विविधार्थे क्रियायोगे (अक्रꣳस्त) क्रमते। अत्र सर्वत्र लडर्थे लङ् (जागतेन) जगत्येव जागतं सर्वलोकसुखकारकं तेन (छन्दसा) आह्लादकारकेण (ततः) तस्मात् द्युलोकात् (निर्भक्तः) विभागं प्राप्तः (यः) विरोधी (अस्मान्) यज्ञानुष्ठातॄन् (द्वेष्टि) विरुणद्धि (यम्) शासितुं योग्यं दुष्टं प्राणिनम् (च) पुनरर्थे (वयम्) यज्ञक्रियानुष्ठातारः (द्विष्मः) विरुन्ध्मः (अन्तरिक्षे) अवकाशे (विष्णुः) यज्ञः (वि) विविधगमने क्रियार्थे (अक्रꣳस्त) गच्छति (त्रैष्टुभेन) त्रिष्टुबेव त्रैष्टुभं त्रिविधसुखहेतुस्तेन (छन्दसा) स्वच्छन्दताप्रदेन (ततः) तस्मादन्तरिक्षात् (निर्भक्तः) पृथग्भूतः (यः) दुःखप्रदः प्राणी (अस्मान्) सर्वोपकारकान् (द्वेष्टि) दुःखयति (यम्) सर्वाहितकरम् (च) समुच्चये (वयम्) सर्वहितकारिणः (द्विष्मः) पीडयामः (पृथिव्याम्) विस्तृतायां भूमौ (विष्णुः) यज्ञः (वि) विविधसुखसाधने (अक्रꣳस्त) विविधसुखप्राप्तिहेतुना क्रमते (गायत्रेण) गायत्र्यमेव गायत्रं तेन रक्षणसाधनेन (छन्दसा) आनन्दप्रदेन (ततः) तस्मात् पृथिवीस्थानात् (निर्भक्तः) पृथग्भूत्वाऽन्तरिक्षं गतः (यः) अस्मद्राज्यविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) वैरायते (यम्) शत्रुम् (च) समुच्चये (वयम्) राज्याधीशाः (द्विष्मः) वैरायामहे (अस्मात्) प्रत्यक्षाद् यज्ञशोभितात् (अन्नात्) अत्तुं योग्यात् (अस्यै) प्रत्यक्षं प्राप्तायै (प्रतिष्ठायै) प्रतितिष्ठन्ति सत्कारं प्राप्नुवन्ति यस्यां तस्यै (अगन्म) प्राप्नुयाम (स्वः) सुखम्। स्वरिति साधारणनामसु पठितम् (निघं॰१.४) (सम्) सम्यगर्थे (ज्योतिषा) विद्याधर्मप्रकाशकारकेण संयुक्ताः (अभूम) संगता भवेम॥ अयं मन्त्रः (शत॰१.९.३.८-१४) व्याख्यातः॥२५॥

    भावार्थः - मनुष्यैर्यावन्ति सुगन्ध्यादिगुणयुक्तानि द्रव्याण्यग्नौ प्रक्षिप्यन्ते, तानि पृथक्-पृथक् भूत्वा सूर्य्यप्रकाशे आकाशे भूमौ च विहृत्य सर्वाणि सुखानि साधयन्ति। तथा च वाय्वग्निजलपृथिव्यादीनि शिल्पविद्यासिद्धैः कलायन्त्रैर्विमानादियानेषु प्रयोज्यन्ते, तानि सूर्य्यप्रकाशेऽन्तरिक्षे च सर्वान् प्राणिनः सुखेन विहारयन्ति। यद् द्रव्यं सूर्य्यकिरणाग्निद्वारा विच्छिद्यान्तरिक्षं [गच्छति] पुनस्तदेव भुवमागत्य पुनर्भूमेः सकाशादुपरि गत्वा, पुनस्तत आगच्छत्येवमेव पुनः पुनर्मनुष्यैरित्थं पुरुषार्थेन दोषदुःखशत्रून् सम्यक् निवार्य्य सुखं भोक्तव्यं भोजयितव्यं च। यज्ञशोधितैर्वायुजलौषध्यन्नैरारोग्यबुद्धिशरीरबलवर्धनान्महत्सुखं प्राप्य विद्याप्रकाशेन नित्यं प्रतिष्ठीयताम्॥२५॥

    इस भाष्य को एडिट करें
    Top