Loading...
यजुर्वेद अध्याय - 2

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 25
    ऋषिः - वामदेव ऋषिः देवता - सत्रस्य विष्णुर्देवता छन्दः - निचृत् आर्ची पङ्क्ति,आर्ची पङ्क्ति,भूरिक् जगती, स्वरः - पञ्चमः , निषाद
    155

    दि॒वि विष्णु॒र्व्यक्रꣳस्त॒ जाग॑तेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्यक्रꣳस्त॒ त्रैष्टु॑भेन॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः। पृ॑थि॒व्यां विष्णु॒र्व्यक्रꣳस्त गाय॒त्रेण॒ च्छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑द॒स्यै प्र॑ति॒ष्ठाया॒ऽअग॑न्म॒ स्वः] सं ज्योति॑षाभूम॥२५॥

    स्वर सहित पद पाठ

    दि॒वि। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। जाग॑तेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒न्तरि॑क्षे। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। त्रैष्टु॑भेन। त्रैस्तु॑भे॒नेति॒ त्रैस्तु॑भेन। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। पृ॒थि॒व्याम्। विष्णुः॑। वि। अ॒क्र॒ꣳस्त॒। गा॒य॒त्रेण॑। छन्द॑सा। ततः॑। निर्भ॑क्त॒ इति॒ निःऽभ॑क्तः। यः। अ॒स्मान्। द्वेष्टि॑। यम्। च॒। व॒यम्। द्वि॒ष्मः। अ॒स्मात्। अन्ना॑त्। अ॒स्यै। प्र॒ति॒ष्ठायै॑। प्र॒ति॒स्थाया॒ इति॑ प्रति॒ऽस्थायै॑। अग॑न्म। स्व॒रिति॒ स्वः᳕। सम्। ज्योति॑षा। अ॒भू॒म॒ ॥२५॥


    स्वर रहित मन्त्र

    दिवि विष्णुर्व्यक्रँस्त जागतेन छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मोन्तरिक्षे विष्णुर्व्यक्रँस्त त्रैषटुभेन छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मः पृथिव्याँ विष्णुर्व्यक्रँस्त गायत्रेण छन्दसा ततो निर्भक्तो योस्मान्द्वेष्टि यञ्च वयन्द्विष्मोस्मादन्नादस्यै प्रतिष्ठायाऽअगन्म स्वः सञ्ज्योतिषाभूम ॥


    स्वर रहित पद पाठ

    दिवि। विष्णुः। वि। अक्रꣳस्त। जागतेन। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। अन्तरिक्षे। विष्णुः। वि। अक्रꣳस्त। त्रैष्टुभेन। त्रैस्तुभेनेति त्रैस्तुभेन। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। पृथिव्याम्। विष्णुः। वि। अक्रꣳस्त। गायत्रेण। छन्दसा। ततः। निर्भक्त इति निःऽभक्तः। यः। अस्मान्। द्वेष्टि। यम्। च। वयम्। द्विष्मः। अस्मात्। अन्नात्। अस्यै। प्रतिष्ठायै। प्रतिस्थाया इति प्रतिऽस्थायै। अगन्म। स्वरिति स्वः। सम्। ज्योतिषा। अभूम॥२५॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 25
    Acknowledgment

    संस्कृत (2)

    विषयः

    स यज्ञस्त्रिषु लोकेषु विस्तृतः सन् किं किं सुखं साधयतीत्युपदिश्यते॥

    अन्वयः

    अस्माभिर्जागतेन छन्दसाऽनुष्ठितोऽयं विष्णुर्यज्ञो दिवि व्यक्रंस्त स पुनस्ततो निर्भक्तः सन् छन्दसा सर्वं जगत् प्रीणाति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निराकुर्मः। अस्माभिर्योऽयं यज्ञस्त्रैष्टुभेन छन्दसाऽग्नौ प्रयोजितेऽन्तरिक्षे व्यक्रꣳस्त स पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयति, योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निवारयामः। अस्माभिर्योऽयं विष्णुर्यज्ञो गायत्रेण छन्दसा पृथिव्यामनुष्ठीयते, स पृथिव्यां व्यक्रंस्त स ततो निर्भक्तः सन् पृथिवीस्थान् पदार्थान् पोषयति। योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निषिध्यामः। वयमस्मादन्नात् स्वरगन्म। वयमनेन यज्ञेनास्यै प्रतिष्ठायै ज्योतिषा संयुक्ताः समभूम भवेम॥२५॥

    पदार्थः

    (दिवि) सूर्य्यप्रकाशे (विष्णुः) यो वेवेष्टि व्याप्नोत्यन्तरिक्षस्थलवाय्वादिपदार्थान् स यज्ञः। यज्ञो वै विष्णुः (शत॰१.१.२.१३) (वि) विविधार्थे क्रियायोगे (अक्रꣳस्त) क्रमते। अत्र सर्वत्र लडर्थे लङ् (जागतेन) जगत्येव जागतं सर्वलोकसुखकारकं तेन (छन्दसा) आह्लादकारकेण (ततः) तस्मात् द्युलोकात् (निर्भक्तः) विभागं प्राप्तः (यः) विरोधी (अस्मान्) यज्ञानुष्ठातॄन् (द्वेष्टि) विरुणद्धि (यम्) शासितुं योग्यं दुष्टं प्राणिनम् (च) पुनरर्थे (वयम्) यज्ञक्रियानुष्ठातारः (द्विष्मः) विरुन्ध्मः (अन्तरिक्षे) अवकाशे (विष्णुः) यज्ञः (वि) विविधगमने क्रियार्थे (अक्रꣳस्त) गच्छति (त्रैष्टुभेन) त्रिष्टुबेव त्रैष्टुभं त्रिविधसुखहेतुस्तेन (छन्दसा) स्वच्छन्दताप्रदेन (ततः) तस्मादन्तरिक्षात् (निर्भक्तः) पृथग्भूतः (यः) दुःखप्रदः प्राणी (अस्मान्) सर्वोपकारकान् (द्वेष्टि) दुःखयति (यम्) सर्वाहितकरम् (च) समुच्चये (वयम्) सर्वहितकारिणः (द्विष्मः) पीडयामः (पृथिव्याम्) विस्तृतायां भूमौ (विष्णुः) यज्ञः (वि) विविधसुखसाधने (अक्रꣳस्त) विविधसुखप्राप्तिहेतुना क्रमते (गायत्रेण) गायत्र्यमेव गायत्रं तेन रक्षणसाधनेन (छन्दसा) आनन्दप्रदेन (ततः) तस्मात् पृथिवीस्थानात् (निर्भक्तः) पृथग्भूत्वाऽन्तरिक्षं गतः (यः) अस्मद्राज्यविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) वैरायते (यम्) शत्रुम् (च) समुच्चये (वयम्) राज्याधीशाः (द्विष्मः) वैरायामहे (अस्मात्) प्रत्यक्षाद् यज्ञशोभितात् (अन्नात्) अत्तुं योग्यात् (अस्यै) प्रत्यक्षं प्राप्तायै (प्रतिष्ठायै) प्रतितिष्ठन्ति सत्कारं प्राप्नुवन्ति यस्यां तस्यै (अगन्म) प्राप्नुयाम (स्वः) सुखम्। स्वरिति साधारणनामसु पठितम् (निघं॰१.४) (सम्) सम्यगर्थे (ज्योतिषा) विद्याधर्मप्रकाशकारकेण संयुक्ताः (अभूम) संगता भवेम॥ अयं मन्त्रः (शत॰१.९.३.८-१४) व्याख्यातः॥२५॥

    भावार्थः

    मनुष्यैर्यावन्ति सुगन्ध्यादिगुणयुक्तानि द्रव्याण्यग्नौ प्रक्षिप्यन्ते, तानि पृथक्-पृथक् भूत्वा सूर्य्यप्रकाशे आकाशे भूमौ च विहृत्य सर्वाणि सुखानि साधयन्ति। तथा च वाय्वग्निजलपृथिव्यादीनि शिल्पविद्यासिद्धैः कलायन्त्रैर्विमानादियानेषु प्रयोज्यन्ते, तानि सूर्य्यप्रकाशेऽन्तरिक्षे च सर्वान् प्राणिनः सुखेन विहारयन्ति। यद् द्रव्यं सूर्य्यकिरणाग्निद्वारा विच्छिद्यान्तरिक्षं [गच्छति] पुनस्तदेव भुवमागत्य पुनर्भूमेः सकाशादुपरि गत्वा, पुनस्तत आगच्छत्येवमेव पुनः पुनर्मनुष्यैरित्थं पुरुषार्थेन दोषदुःखशत्रून् सम्यक् निवार्य्य सुखं भोक्तव्यं भोजयितव्यं च। यज्ञशोधितैर्वायुजलौषध्यन्नैरारोग्यबुद्धिशरीरबलवर्धनान्महत्सुखं प्राप्य विद्याप्रकाशेन नित्यं प्रतिष्ठीयताम्॥२५॥

    इस भाष्य को एडिट करें

    विषयः

    स यज्ञस्त्रिषु लोकेषु विस्तृतः सन् किं किं सुखं साधयतीत्युपदिश्यते ॥

    सपदार्थान्वयः

    अस्माभिर्जागतेन जगत्येन जागतं सर्वलोकसुखकारकं तेन छन्दसा आह्लादकारकेण अनुष्ठितोऽयं विष्णुः=यज्ञो यो वेवेष्टि=व्याप्नोत्यन्तरिक्षस्थलवाय्वादिपदार्थान् स यज्ञो दिवि सूर्यप्रकाशे वि+अक्रँस्त विविधं क्रमते, स पुनः ततः तस्माद् द्युलोकात् निर्भक्तः विभागं प्राप्तः सन् छन्दसा अह्लादकारकेण सर्वं जगत् प्रीणाति । यो विरोधी अस्मान् यज्ञाऽनुष्ठातृन् द्वेष्टि विरुणच्छि, यं शासितुं योग्यं दुष्टं प्राणिनं च वयं यज्ञक्रियाऽनुष्ठातारो द्विष्मो विरुन्ध्मः, तमनेन निराकुर्मः

    अस्माभिर्योऽयं विष्णुः=यज्ञस्त्रैष्टुभेन त्रिष्टुबेव त्रैष्टुभं विविधसुखहेतुस्तेन छन्दसा स्वच्छन्दताप्रदेन अग्नौ प्रयोजितेऽन्तरिक्षे अवकाशे वि+अक्रंस्त विविधं गच्छति, स पुनस्ततः=स्थानात् तस्मादन्तरिक्षात् निर्भक्तः पृथग्भूतः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयतियः दुःखप्रदः प्राणी अस्मान् सर्वोपकारकान् द्वेष्टि दुःखयति, यं सर्वाऽहितकरं च वयं सर्वहितकारिणो द्विष्मः पीडयामः, तमनेन निवारयामः

    अस्माभिर्योऽयं विष्णुः=यज्ञो गायत्रेण [गायत्र्येव गायत्रं...... ] छन्दसा आनन्दप्रदेन पृथिव्याम् अनुष्ठीयते, स पृथिव्यां वि+अक्रंस्त विविधसुखप्राप्तिहेतुना क्रमते । स ततः तस्मात्पृथिवीस्थानात् निर्भक्तः पृथग्भूत्वाऽन्तरिक्षं गतः सन् पृथिवीस्थान् पदार्थान् पोषयति । यो अस्मद्राज्यविरोधी अस्मान् न्यायाधीशान् द्वेष्टि वैरायते, यं शत्रुं च वयं राज्याधीशा द्विष्मो वैरायामहे, तमनेन निषिध्यास्म

     वयस्ममात् प्रत्यक्षाद्यजशोधिताद् अन्नाद् अत्तुं योग्यात् स्वः सुखम् अगन्म प्राप्नुयाम ।

    वयमनेन यज्ञेनाऽस्यै प्रत्यक्ष प्राप्तायै प्रतिष्ठायै प्रतितिष्ठन्ति सत्कारं प्राप्नुवन्ति यस्यां तस्यै ज्योतिषा विद्याधर्मप्रकाशकारकेण संयुक्ताः सम्+अभूम=भवेम सम्यक् सङ्गता भवेम ॥ २ । २५ ॥

    पदार्थः

    (दिवि) सूर्यप्रकाशे (विष्णुः) यो वेवेष्टि व्याप्नोत्यन्तरिक्षस्थलवाय्वादिपदार्थान् स यज्ञः । यज्ञो वै विष्णुः ॥ श० १ । १ । २ । १३ ॥ (वि) विविधार्थे क्रियायोगे (अक्रँस्त) क्रमते । अत्र सर्वत्र लडर्थे लुङ् (जागतेन) जगत्येव जागतं सर्वलोकसुखकारकं तेन (छन्दसा) आह्लादकारकेण (ततः) तस्मात् द्युलोकात् (निर्भक्तः) विभागं प्राप्तः (यः) विरोधी (अस्मान्) यज्ञानुष्ठातृन् (द्वेष्टि) विरुणद्धि (यम्) शासितुं योग्यं दुष्टं प्राणिनम् (च) पुनरर्थे (वयम्) यज्ञक्रियानुष्ठातारः (द्विष्मः) विरुध्मः (अन्तरिक्षे) अवकाशे (विष्णुः) यज्ञः (वि) विविधगमने क्रियार्थे (अक्रँस्त) गच्छति (त्रैष्टुभेन) त्रिष्टुबेव त्रैष्टुभं त्रिविधसुखहेतुस्तेन (छन्दसा) स्वच्छन्द्रताप्रदेन (ततः) तस्मादन्तरिक्षात् (निर्भक्तः) पृथग्भूतः (यः) दुःखप्रदः प्राणी (अस्मान्) सर्वोपकारकान् (द्वेष्टि) दुःखयति (यम्) सर्वाहितकरम् (च) समुच्चये (वयम्) सर्वहितकारिणः (द्विष्मः) पीडयामः (पृथिव्याम्) विस्तृतायां भूमौ (विष्णुः) यज्ञः (वि) विविधसुखसाधने (अक्रँस्त) विविधसुखप्राप्तिहेतुना क्रमते । (छन्दसा) आनन्दप्रदेन (ततः) तस्मात्पृथिवीस्थानात् (निर्भक्तः) पृथग्भूत्वाऽन्तरिक्षं गतः (यः) अस्मद्राज्यविरोधी (अस्मान्) न्यायाधीशान् (द्वेष्टि) वैरायते (यम्) शत्रुम् (च) समुच्चये (वयम्) राज्याधीशाः (द्विष्मः) वैरायामहे (अस्मत्) प्रत्यक्षाद्यज्ञशोधितात् (अन्नात्) अत्तं योग्यात् (अस्यै) प्रत्यक्ष प्राप्तायै (प्रतिष्ठायै) प्रति तिष्ठन्ति सत्कारं प्राप्नुवन्ति यस्यां तस्यै (अगन्म) प्राप्नुयाम (स्वः) सुखम् । स्वरिति साधारणनामसु पठितम् ॥ निघं० १॥ ४ ॥ (सम्) सम्यगर्थे (ज्योतिषा) विद्याधर्मप्रकाशकारकेण संयुक्ताः (अभूम) संगता भवेम । अयं मंत्रः श०१।९।३। १२-१४ व्याख्यातः ॥ २५ ॥

    भावार्थः

    [अस्ताभिः......'अनुष्ठितोऽयं विष्णुः=यज्ञो दिवि व्यक्रंस्त, स ततो निर्भक्तः सन् छन्दसा सर्वं जगत् प्रीणाति, ....अन्तरिक्षं व्यक्रंस्त, स पुनस्ततः स्थानान्निर्भक्तः सन् वायुवृष्टिजलशुद्धिद्वारा सर्वं जगत् सुखयति]

    मनुष्यैर्यावन्ति सुगन्ध्यादिगुणयुक्तानि द्रव्याण्यग्नौ प्रक्षिप्यन्ते तानि पृथक्-पृथक् भूत्वा सूर्यप्रकाशे, आकाशे, भूमौ च विहृत्य सर्वाणि सुखानि साधयन्ति,

    तथा च-–वाय्वग्निजलपृथिव्यादीनि शिल्पविद्यासिद्धैः कलायन्त्रै विमानादियानेषु प्रयोज्यन्ते, तानि सूर्यप्रकाशेऽन्तरिक्षे च सर्वान् प्राणिनः सुखेन विहारयन्ति ।

     

    [स पृथिव्यां व्यक्रंस्त, स ततो निर्भक्तः सन् पृथिवीस्थान् पदार्थान् पोषयति]

    यद् द्रव्य सूर्यकिरणाग्निद्वारा विच्छिद्यान्तरिक्षं पुनस्तदेव भुवमागत्य, पुनर्भूमेः सकाशादुपरिगत्वा, पुनस्तत आगच्छति,

    [योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमनेन निषिध्यास्म वयमस्मादन्नात्स्वरगन्म]

    एवमेव पुनः पुनर्मनुष्यैरित्थं पुरुषार्थेन दोषदुःखशत्रून् सम्यक् निवार्य, सुखं भोक्तव्यं भोजयितव्यं च ।

    [व्यमनेन यज्ञेनाऽस्यै प्रतिष्ठायै ज्योतिषा संयुक्ताः समभूम=भवेम]

    यज्ञशोधितैर्वायुजलौषध्यन्नशुद्धैरारोग्यबुद्धिशरीरबलवर्धनान्महत्सुखं प्राप्य विद्याप्रकाशेन नित्यं प्रतिष्ठीयताम् ॥ २।२५॥

    भावार्थ पदार्थः

    ज्योतिषा=विद्याप्रकाशेन ॥

    विशेषः

    वामदेवः । विष्णु: = यज्ञः ॥ दिवीत्यारभ्य द्विष्म इत्यन्तस्य निचृदार्ची पक्तिः तथाऽन्त रिक्षमित्यारभ्य द्विष्मः पर्यन्तस्यार्ची पंक्तिः । पंचमः । पृथिव्यामित्यारभ्यान्तपर्यन्तस्य भुरिग् जगती । निषादः ॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    वह यज्ञ तीनों लोक में विस्तृत होकर कौन-कौन सुख का साधन होता है, सो अगले मन्त्र में प्रकाशित किया है॥

    पदार्थ

    (जागतेन) सब लोकों के लिये सुख देने वाले (छन्दसा) आह्लादकारक जगती छन्द से हमारा अनुष्ठान किया हुआ यह (विष्णुः) अन्तरिक्ष में ठहरने वाले पदार्थों में व्यापक यज्ञ (दिवि) सूर्य्य के प्रकाश में (व्यक्रंस्त) जाता है, वह फिर (ततः) वहाँ से (निर्भक्तः) विभाग अर्थात् परमाणुरूप होके सब जगत् को तृप्त करता है। (यः) जो विरोधी शत्रु (अस्मान्) यज्ञ के अनुष्ठान करने वाले हम लोगों से (द्वेष्टि) विरोध करता है (च) तथा (यम्) दण्ड देकर शिक्षा करने योग्य जिस दुष्ट प्राणी से (वयम्) हम लोग यज्ञ के अनुष्ठान करने वाले (द्विष्मः) अप्रीति करते हैं, उसको उसी यज्ञ से दूर करते हैं। हम लोगों ने जो यह (विष्णुः) यज्ञ (त्रैष्टुभेन) तीन प्रकार के सुख करने और (छन्दसा) स्वतन्त्रता देने वाले त्रिष्टुप् छन्द से अग्नि में अच्छी प्रकार संयुक्त किया है, वह (अन्तरिक्षे) आकाश में (व्यक्रंस्त) पहुँचता है, वह फिर (ततः) उस अन्तरिक्ष से (निर्भक्तः) अलग हो के वायु और वर्षा जल की शुद्धि से सब संसार को सुख पहुँचाता है (यः) जो दुःख देने वाला प्राणी (अस्मान्) सब के उपकार करने वाले हम लोगों को (द्वेष्टि) दुःख देता है (च) तथा (यम्) सब के अहित करने वाले दुष्ट को (वयम्) हम लोग सब के हित करने वाले (द्विष्मः) पीड़ा देते हैं, उसे उक्त यज्ञ से निवारण करते हैं। हम लोगों से जो (विष्णुः) यज्ञ (गायत्रेण) संसार की रक्षा सिद्ध करने और (छन्दसा) अति आनन्द करने वाले गायत्री छन्द से निरन्तर किया जाता है, वह (पृथिव्याम्) विस्तारयुक्त इस पृथिवी में (व्यक्रंस्त) विविध सुखों की प्राप्ति के हेतु से विस्तृत होता है, (ततः) उस पृथिवी से (निर्भक्तः) अलग होकर अन्तरिक्ष में जाकर पृथिवी के पदार्थों की पुष्टि करता है। (यः) जो पुरुष हमारे राज्य का विरोधी (अस्मान्) हम लोग जो कि न्याय करने वाले हैं, उन से (द्वेष्टि) वैर करता है (च) तथा (यम्) जिस शत्रु जन से (वयम्) हम लोग न्यायाधीश (द्विष्मः) वैर करते हैं, उसका इस उक्त यज्ञ से नित्य निषेध करते हैं। हम लोग (अस्मात्) यज्ञ से शोधा हुआ प्रत्यक्ष (अन्नात्) जो भोजन करने योग्य अन्न है, उस से (स्वः) सुखरूपी स्वर्ग को (अगन्म) प्राप्त हों तथा (अस्यै) इस प्रत्यक्ष प्राप्त होने वाली (प्रतिष्ठायै) प्रतिष्ठा अर्थात् जिसमें सत्कार को प्राप्त होते हैं, उसके लिये (ज्योतिषा) विद्या और धर्म के प्रकाश से संयुक्त (समभूम) अच्छी प्रकार हों॥२५॥

    भावार्थ

    जो-जो मनुष्य लोग सुगन्धि आदि पदार्थ अग्नि में छोड़ते हैं, वे अलग-अलग होकर सूर्य्य के प्रकाश तथा भूमि में फैलकर सब सुखों को सिद्ध करते हैं तथा जो वायु, अग्नि, जल और पृथिवी आदि पदार्थ शिल्पविद्यासिद्ध कलायन्त्रों से विमान आदि यानों में युक्त किये जाते हैं, वे सब सूर्य्यप्रकाश वा अन्तरिक्ष में सुख से विहार करते हैं। जो पदार्थ सूर्य्य की किरण वा अग्नि के द्वारा परमाणुरूप होके अन्तरिक्ष में जाकर फिर पृथिवी पर आते हैं, फिर भूमि से अन्तरिक्ष वा वहाँ से भूमि को आते-जाते हैं, वे भी संसार को सुख देते हैं। मनुष्यों को उचित है कि इसी प्रकार बार-बार पुरुषार्थ से दोष, दुःख और शत्रुओं को अच्छी प्रकार निवारण करके सुख भोगना भुगवाना चाहिये तथा यज्ञ से शुद्ध वायु, जल, ओषधि और अन्न की शुद्धि के द्वारा आरोग्य, बुद्धि और शरीर के बल की वृद्धि से अत्यन्त सुख को प्राप्त होके विद्या के प्रकाश से नित्य प्रतिष्ठा को प्राप्त होना चाहिये॥२५॥

    इस भाष्य को एडिट करें

    विषय

    वह यज्ञ तीनों लोक में विस्तृत होकर क्या क्या सुख सिद्ध करता है, यह उपदेश किया है।

    भाषार्थ

    हमारे द्वारा (जागतेन) सब लोकों को सुख देने वाले (छन्दसा) आनन्दकारी जगती-छन्द के द्वारा किया हुआ यह यज्ञ (विष्णुः) जो अन्तरिक्ष में स्थित जल, वायु आदि पदार्थों में व्याप्त है, वह यज्ञ (दिवि) द्युलोक में (वि अक्रन्स्त) विविध प्रकार से विचरता है, फिर वह (ततः) उस द्युलोक से (निर्भक्तः) पृथक् होकर आनन्द से सब जगत् को तृप्त कर देता है। और (यः) जो शत्रु (अस्मान्) हम यज्ञ करने वालों से (द्वेष्टि) विरोध करता है, (यम् च) और शासन में रखने योग्य जिस दुष्ट प्राणी से (वयम्) यज्ञादि शुभ कर्म करने हारे (द्विष्मः) विरोध करते हैं, उसे इस यज्ञ से दूर करते हैं।

    हमारे द्वारा जो (विष्णुः) यज्ञ (त्रैष्टुभेन) तीन प्रकार के सुखों के निमित्त (छन्दसा) स्वतन्त्रता प्रदान करने वाले त्रिष्टुप्-छन्द से अग्नि के प्रयोग करने पर (अन्तरिक्षे) आकाश में (व्यक्रंस्त) विविधगति करता है, वह फिर (तत्) उस अन्तरिक्ष स्थान से (निर्भक्तः) पृथक् होकर वायु और वर्षा जल की शुद्धि के द्वारा सब जगत् को सुखी बनाता है और (यः) जो कष्ट देने वाला प्राणी (अस्मान्) सबका उपकार करने वाले हम लोगों को (द्वेष्टि) दुःख देता है, और (यम्) जिस सबका अहित चाहने वाले को (वयम्) सबके हितकारी हम लोग (द्विष्मः) पीड़ा देते हैं, उसको इस यज्ञ से हटाते हैं।

    हमारे द्वारा जो यह (विष्णुः) यज्ञ (गायत्रेण) संसार की रक्षा करने वाले (छन्दसा) आनन्ददायक गायत्री छन्द से (पृथिव्याम्) इस विशाल भूमि में किया जाता है, वह पृथिवी पर (व्यक्रंस्त) विविध सुख प्राप्ति का निमित्त बन कर फैलाता है। वह (ततः) उस पृथिवी-स्थान से (निर्भक्तः) पृथक् होकर आकाश में पहुँचकर पृथिवी के पदार्थों को पुष्ट करता है। (यः) जो हमारे राज्य का शत्रु (अस्मान्) हम न्यायाधीशों से (द्वेष्टि) वैर करता है, और (यम् च) जिस शत्रु से (वयम्) हम राज्य के स्वामी (द्विष्मः) वैर करते हैं उसको इस यज्ञ से रोकते हैं।

    हम (अस्मात्) इस प्रत्यक्ष यज्ञ के शुद्ध किए (अन्नात्) भक्षण-योग्य अन्न से (स्वः) सुख को (अगन्म) प्राप्त करते हैं।

     हमने इस यज्ञ से (अस्यै) इस प्रत्यक्ष-प्राप्त (प्रतिष्ठायै) सम्मान के लिए (ज्योतिषा) विद्या और धर्म का प्रकाश करने वाले परमेश्वर के साथ (समभूम्) सदा संगत रहें॥ २।२५॥

    भावार्थ

    मनुष्य, जितने सुगन्धि आदि गुणों से युक्त पदार्थ अग्नि में डालते हैं व सूक्ष्म होकर, सूर्य-प्रकाश, आकाश और भूमि में विचरण कर सब सुखों को सिद्ध करते हैं।

    और--जो वायु, अग्नि, जल, पृथिवी, आदि पदार्थ शिल्प विद्या से सिद्ध किये कलायन्त्रों से विमानादि यानों  में प्रयुक्त किये जाते हैं, वे सूर्य प्रकाश और अन्तरिक्ष में सब प्राणियों को सुख से विहार कराते हैं।

     जो पदार्थ सूर्य किरण एवं अग्नि के द्वारा सूक्ष्म होकर आकाश में, फिर वही द्रव्य भूमि पर आकर फिर भूमि से ऊपर जाकर, फिर वहाँ से आता है।

    इस प्रकार बार-बार इस विधि से मनुष्य पुरुषार्थ के द्वारा दोषों, दुःखों और शत्रुओं को अच्छी प्रकार निवारण करके सुख का उपभोग करें और करावें। यज्ञ से शुद्ध किये वायु, जल, औषधि और अन्न से आरोग्य, बुद्धि और शारीरिक बल बढ़ाकर, महान् सुख प्राप्त करके विद्या के प्रकाश से नित्य प्रतिष्ठा को प्राप्त करें॥२।२५॥

    भाष्यसार

    १. द्युलोक में विस्तृत यज्ञ--तीनों लोकों में व्यापक होने से यहाँ यज्ञ को विष्णु कहा है। द्युलोक में व्याप्त यज्ञ वहाँ से विस्तृत होकर सब जगत् को तृप्त करता है। जो द्युलोक सम्बन्धी पीड़ाएँ हैं, उन्हें यज्ञ दूर करता है।

    २. अन्तरिक्ष में विस्तृत यज्ञ--अन्तरिक्ष लोक में व्याप्त यज्ञ वायु को तथा वर्षा जल को शुद्ध करता है। जो अन्तरिक्ष सम्बन्धी कष्ट हैं , उन्हें दूर हटाता है।

    ३.भूलोक में विस्तृत यज्ञ--पृथिवी में व्याप्त यज्ञ पृथिवीस्थ पदार्थों को पुष्ट करता है, पृथिवीस्थ दोष, दुःख और शत्रुओं को दूर हटाता है। यज्ञ से पृथिवी पर अन्न उत्पन्न होता है जिससे सब सुखों की प्राप्ति होती है।

    ४. यज्ञ से प्रतिष्ठा--यज्ञ से विद्या और धर्म का प्रकाश प्राप्त होता है। जिससे प्रतिष्ठा की उपलब्धि होती है।

    विशेष

    वामदेवः। विष्णुः=यज्ञः॥ दिवीत्यारभ्य द्विष्म इत्यन्तस्य निचृदार्ची पंक्तिः तथाऽन्तरिक्षमित्यारभ्य द्विष्मः पर्य्यन्तस्यार्ची पंक्तिः। पंचमः। पृथिव्यामित्यारभ्यान्तपर्य्यन्तस्य भुरिग् जगती। निषादः॥

    इस भाष्य को एडिट करें

    विषय

    तीन पग

    पदार्थ

    १. गत मन्त्र के अनुसार जो जीव अपनी न्यूनताओं का शोधन करता हुआ ‘शरीर, मन व मस्तिष्क’ की उन्नति को सिद्ध करता है, वह ‘विष्णु’—व्यापक उन्नतिवाला कहलाता है। यह ( विष्णुः ) = उन्नतिशील पुरुष ( दिवि ) = [ मूर्ध्नो द्यौः ] मस्तिष्क के विषय में ( व्यक्रंस्त ) = विशेष पग रखता है, मस्तिष्क को ज्ञान-ज्योति से उज्ज्वल बनाने का प्रयत्न करता है। ( जागतेन छन्दसा ) =  जगती के हित की इच्छा से—अधिक-से-अधिक लोकहित की इच्छा से कर्म करता है। ( ततः ) =  इससे, इस ज्ञान की दीप्ति से, ( यः ) = जो कोई ( अस्मान् ) = हम सबसे द्वेष करता है ( च ) = और ( यम् ) = जिसको ( वयम् ) = हम सब ( द्विष्मः ) = अप्रीतिकर समझते हैं, वह व्यक्ति ( निर्भक्तः ) = दूर भगा दिया जाता है [ is put to flight ]। इस ज्ञान के कारण ऐसे पुरुष से हम इस प्रकार वर्त्तते हैं कि वह द्वेष करना छोड़ देता है, अथवा उसका द्वेष समाज को उतनी हानि नहीं पहुँचा पाता। 

    २. ( विष्णुः ) = वह चहुँमुखी उन्नति करनेवाला पुरुष ( अन्तरिक्षे ) = हृदयान्तरिक्ष के विषय में ( व्यक्रंस्त ) =  विशेषरूप से पग रखता है। ( छन्दसा ) = इस इच्छा से कि ( त्रैष्टुभेन ) =  [ त्रि+स्तुभ् ] काम, क्रोध व लोभ तीनों को रोक सके। यह विष्णु प्रयत्न करता है कि इसके हृदय में काम, क्रोध व लोभ का प्रवेश न हो। इन्हें नरक का द्वार जानकर वह इनका अन्त करनेवाला होता है। ( ततः ) = उस राग-द्वेषातीत हृदय से ( निर्भक्तः ) = वह व्यक्ति दूर कर दिया जाता है, ( यः ) = जो ( अस्मान् ) =  हम सबसे द्वेष करता है ( च ) = और ( यम् ) = जिसको ( वयम् ) = हम सब ( द्विष्मः ) = अप्रीति के योग्य समझते हैं। पवित्र हृदयवाला मनुष्य दूसरे की अपवित्रता को दूर करने में बहुत कुछ समर्थ होता है। अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः—इस योगदर्शन के सूत्र में यही कहा है कि मेरे हृदय में अहिंसा प्रतिष्ठित होगी तो मेरे समीप दूसरा व्यक्ति भी अपने वैर को समाप्त कर देगा। 

    ३. अब यह ( विष्णुः ) = व्यापक उन्नतिशील पुरुष ( पृथिव्याम् ) = [ पृथिवी शरीरम् ] इस शरीर के विषय में ( व्यक्रंस्त ) = विशेषरूप से पग रखता है जिससे ( गायत्रेण छन्दसा ) = [ गयाः प्राणाः, तान् तत्रे ] प्राणशक्ति की सम्यक् रक्षा कर सके। शरीर को स्वस्थ व सबल रखना ही अन्य सब उन्नतियों का मूल है, अतः इस विषय में विशेष प्रयत्न अपेक्षित है। ( ततः ) = इसी उद्देश्य से ( निर्भक्तः ) = उस व्यक्ति को हम अलग रखते हैं, ( यः ) =  जो ( अस्मान् ) = हम सबके साथ ( द्वेष्टि ) = द्वेष करता है ( च ) = और परिणामतः ( यम् ) = जिसको ( वयम् ) = हम सब ( द्विष्मः ) = अप्रीति के योग्य समझते हैं। द्वेष शरीर के स्वास्थ्य पर बड़ा घातक प्रभाव डालता है, अतः इससे बचना आवश्यक है। 

    ४. ‘समाज-द्वेषी से कैसे वर्त्ता जाए’—इसका उत्तर यहाँ इस प्रकार दिया गया है कि यह ( अस्मात् अन्नात् ) = इस अन्न से ( निर्भक्तः ) = अलग किया जाए। समाज में कभी-कभी मिलकर जो प्रीतिभोज [ feasts ] चलते हैं, उनमें इसे आमन्त्रित न किया जाए। आजकल की भाषा में उसका ‘हुक्का-पानी’ बन्द कर दिया जाए। उसका यह सामाजिक बहिष्कार उसके जीवन के सुधार के लिए एक सत्याग्रह के समान है। इसका उसपर कोई प्रभाव न पड़े, ऐसा नहीं हो सकता। ( अस्यै प्रतिष्ठायाः ) = उसे प्रतिष्ठा के पदों से अलग कर दिया जाए। समाज के सङ्गठनों में उसे प्रमुख स्थान न दिये जाएँ। इस प्रकार उसपर सामाजिक दबाव डालकर उसकी वृत्ति को सुधारने का यत्न किया जाए। 

    ५. उल्लिखित प्रकार से जीवन बिताने पर हम ( स्वः ) = स्वर्ग को ( अगन्म ) = प्राप्त होंगे और ( ज्योतिषा सम् अभूम ) = सदा अपनी ज्ञान-ज्योति के साथ होनेवाले होंगे, अर्थात् हमारा जीवन प्रकाशमय होगा, यह शुक्ल-मार्ग से चलता रहेगा।

    भावार्थ

    भावार्थ — हम ‘मस्तिष्क, मन व शरीर’ की त्रिविध उन्नति करके ‘विष्णु’ कहलाएँ तथा द्वेष से दूर रहकर अपने जीवन को सुखी व प्रकाशमय बनाएँ।

    इस भाष्य को एडिट करें

    विषय

    व्यापक परमेश्वर और राष्ट्र में व्यापक राजशक्ति का वर्णन ।

    भावार्थ

     ( दिवि ) द्यौ: महान् आकाश में ( विष्णुः ) विष्णु, व्यापक परमेश्वर ( जागतेन छन्दसा ) जागत छन्द से, जगतों की रचना करने वाले बल से (वि अक्रंस्त) नाना प्रकार से व्यापक है और ( अन्तरिक्षे अन्तरिक्ष में (विष्णु) व्यापक परमेश्वर ( त्रैष्टुभेन छन्दसा ) त्रिष्टुप् छन्द अर्थात् तीनों लोकों के पालक व्यापार से ( वि अक्रंस्त) व्यापक है । वहाँ वायु, मेघ, विद्युत् रूप से प्रकट है और ( पृथिव्याम् ) पृथिवी में विष्णु (गायत्रेण छन्दसा ) गायत्र छन्द अर्थात् प्राणों की रक्षा करने वाले बल, अन्न आदि रूप से ( व्यक्रंस्त) व्यापक है । इसी प्रकार उसी विष्णु, व्यापक, सर्व शक्तिमान् परमात्मा के अनुकरण में राजा, प्रजापति एवं समस्त यज्ञ भी द्यौलोक में जागत छन्द से अर्थात् स्वर्ण रत्नादि ऐश्वर्य में वैश्यों के बल से और अन्तरिक्ष में त्रैष्टुभ छन्द से अर्थात् तीनों वर्णों की रक्षारूप क्षात्रबल से और पृथिवी निवासी जनता में गायत्र छन्द अर्थात् ब्राह्मणोचित बल से व्यापक रहे। सब पर अपना शासन रक्खे और हमारा शत्रु ( यः अस्मान, द्वेष्टि ) जो हमसे द्वेष करता है और ( यं वयं द्विष्मः ) जिसको हम द्वेष करते हैं वह ( ततः ) उन २ लोकों से और उन २ स्थानों से ( अस्मात् अन्नात् ) इस उपभोग योग्य अक्षय अन्न पदार्थ से और (अस्यै प्रतिष्ठायै) इस भूमि के ऊपर प्राप्त प्रतिष्ठा से ( निर्भक्तः ) सर्वथा भाग रहित करके निकाल दिया जाय । तब हम ( स्व:) सुखमय लोक को समृद्धि को ( अगन्म) प्राप्त हों ।और ज्ञान समृद्धि को(सं अभूम) भली प्रकार प्राप्त हों ॥अपने लक्ष्यभूत उद्देश्य के बाधकों को दूर करके यज्ञ द्वारा तीनों लोकों पर विजय करके सुख समृद्धि विद्या आदि प्राप्त करने का उपदेश है । शत० १।७।३।११ । १४ ॥
     

    टिप्पणी

     १ दिवि। २ अन्तरिक्ष। ३ पृथिव्यां। 

    ऋषि | देवता | छन्द | स्वर

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः )
    विष्णुर्देवताः । ( १ ) निचृदार्षी । ( २ ) आर्ची पंक्तिः । (३) जगती । निषाद; ॥
     

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    माणसे ज्या ज्या सुगंधी पदार्थांची अग्नीत आहुती देतात ते ते पदार्थ वेगवेगळे होऊन सूर्यप्रकाशात समाविष्ट होऊन पृथ्वीवर पसरतात आणि त्यापासून सर्व प्रकारचे सुख मिळते. वायू, अग्नी, जल व पृथ्वीवरील (पदार्थ) इत्यादी जे पदार्थ शिल्पविद्यायुक्त कलायंत्रांनी बनविलेल्या विमान इत्यादी यानात वापरले जातात ते सर्व सूर्यप्रकाशात अंतरिक्षामध्ये विहार करतात. जे पदार्थ सूर्यकिरणांद्वारे अथवा अग्नीद्वारे परमाणूरूप बनून अंतरिक्षात जातात ते पुन्हा पृथ्वीवर येतात. पुन्हा ते भूमीवरून आकाशात जातात व तेथून भूमीवर येणे-जाणे करतात. तेही जगाला सुखी करतात. यानुसार माणसांनी वारंवार पुरुषार्थाने दोष, दुःख व शत्रूंचा नाश करून सुख भोगले पाहिजे व इतरांनाही सुख दिले पाहिजे.

    टिप्पणी

    यज्ञाने वायू, जल, वृक्षौषधी आणि अन्नाची शुद्धी करून आरोग्य, बुद्धी, शरीरबळ वाढवून अत्यंत सुखी व्हावे व विद्येचा प्रसार करून सदैव प्रतिष्ठा प्राप्त करावी.

    इस भाष्य को एडिट करें

    विषय

    तो यज्ञ तिन्ही लोकात प्रसार पावून कोणकोणत्या सुखाचे कारण होतो, याविषयी पुढील मंत्रात सांगितले आहे -

    शब्दार्थ

    शब्दार्थ - (जागतेन) सर्व लोकांसाठी सुखकारक व (छन्दसा) आल्हाददायक जगही नामक छंदाने अनुष्ठानित (विष्णु:) अंतरिक्षात असणार्‍या पदार्थांमधे व्यापक हा यज्ञ (दिवी)सूर्याच्या प्रकाशात (व्यक्रंस्त) जातो. (तव:) तेथून (निर्भक्ता) विभाजित होऊन म्हणजे परमाणूरूप होऊन सर्व जगाला तृप्ति देतो. (य:) जो विरोधक वैरी (अस्मान्) अशा सर्वोपकारी यज्ञाचे अनुष्ठान करणार्‍या आमचा (दृेष्टि) विरोध करतो (च) आणि (यम्) आवश्यक ती कठोर ती शिक्षा देण्यास जो पात्र आहे, अशा दुष्ट व्यक्तीवर (द्विमष्म) आम्ही अप्रीती करतो व त्याला (या जगती छंदाद्वारे) केल्या जाणार्‍या या यज्ञाने दूर करतो. आम्ही जो हा (विष्णु:) यज्ञ (गैष्टुभेन) तीन प्रकारचे सुख देणार्‍या आणि (छन्दसा) स्वातंत्र्य देणार्‍या त्रिष्टुम पापांच्या छंदाचे उच्चारण करीत अग्नीमधे आरंभिला आहे, तो (अन्तरिक्षे) आकाशात (व्यक्रस्त) जातो. पुन्हा तो यज्ञ (तत:) अंतरिक्षापासून (निर्भक्ता) विभक्त होऊन वायू आणि वृष्टि जलाची शुद्धी करून सर्व जगास सुखी करतो. (य:) जो दु:ख देणारा प्राणी (अस्मान्) सर्वांच्या उपकाराकरिता झटणार्‍या आम्हाला (द्वेष्टि) दु:ख देतो (च) आणि (यम्) सर्वांचे अहित करणार्‍या ज्या दुष्टाला (वयम्) सर्वांचे हित करणारे आम्ही (द्विष्म:) पीडित करतो, आम्ही (त्रिष्टुप् छंदाने संपन्न होणार्‍या) यज्ञाने त्या दुष्टाचे निवारण करतो. आम्ही जो (विष्णु:) यज्ञ (गायत्रेण) जगाचे रक्षण करणार्‍या (छन्दसा) अत्यंत आनंदित करणार्‍या गायत्री नामक छंदाद्वारे निरंतर करतो, तो (पृथिव्याम्) या विस्तृत पृथवीला (व्यक्रंस्त) विविध सुखांच्या लाभासाठी प्राप्त होतो. (तत:) पृथिवी पासून (विभक्ति:) वेगळा होऊन तो यज्ञ अंतरिक्षात जाऊन पृथ्वीवरील पदार्थांना पोषण देतो. अशा या गायत्री छंदाद्वारे अनुष्ठानित यज्ञाला (य:) आमच्या राज्याचा विरोध करणारा जो कोणी (अस्मान्) आम्हा न्याय करणार्‍या लोकांशी (द्वेष्टि) शत्रुत्व मानतो (च) आणि (यम्) ज्या शत्रूला (वयम्) आम्ही न्यायशील लोक (द्विष्म:) वैरी मानतो, त्याला आम्ही या यज्ञाद्वारे निवारित करतो. (अस्मात्) या यज्ञापासून प्राप्त जे (अन्नात्) भोजन करण्यास योग्य असे अन्न आहे, आम्ही त्याचे सेवन करून (स्व:) सुखरूप स्वर्गास (अगन्म) प्राप्त करावे व (अस्यै) यज्ञामुळे प्राप्त होणार्‍या (प्रतिष्ठाप्यै) प्रतिष्ठेला पात्र होत म्हणजे ज्यामुळे सत्कार होईल, अशा स्थितीस (ज्योतिषा) विद्या आणि धर्माच्या प्रकाशाने (समभूम) चांगल्या प्रकारे प्राप्त करू. ॥25॥

    भावार्थ

    भावार्थ- मनुष्य यज्ञाग्नीमधे जे सुगंधित पदार्थ टाकतात, ते छिन्न-भिन्न होऊन सूर्याच्या प्रकाशात आणि भूमीवर विस्तार पावून सर्वासाठी सुखकर होतात. तसेच वायू, अग्नी, जल आणि पृथ्वी आदी पदार्थ शिल्पविद्या व सिद्ध कलायंत्राद्वारे विमानादी यानांमधे प्रयुक्त होतात, ते सर्व (वायु, अग्नी आदी) पदार्थ सूर्यप्रकाशात व अंतरिक्षात सुखाने राहतात. जे पदार्थ सूर्यकिरणांनी अथवा अग्नीद्वारे परमाणुरूप होऊन अंतरिक्षात जातात व पुन्हा पृथ्वीवर येतात, ते पुन्हा भूमीपासून अंतरिक्षात व पुन्हा अंतरिक्षापासून भूमीवर अशा प्रकारे येतात, जातात. ते पदार्थ देखील संसाराला सुखी करतात. सर्व मनुष्यांसाठी हेच उचित करणीय कर्म आहे सी त्यांनी पुन: पुन: वारंवार पुरूषार्थ करीत राहून दोष, दु:ख आणि शत्रू यांचे निवारण करून स्वत: सुख उपभोगावे आणि इतरांनाही सुखी करावे. सर्वांनी यज्ञाने वायू, जल, औषधी आणि अन्नाची शुद्धी करावी आणि त्याद्वारे आरोग्य, बुद्धी, शारीरिक बल यांची वृद्धी करीत अत्यंत सुखी व्हावे आणि विद्येचा विकास करून नित्य प्रतिष्ठा प्राप्त करावी. ॥25॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    The Yajna performed by us in Jagati metre goes up to the sky. From there it is sent back and pleases the world. By means of this Yajna, may we ward off the man who hates us, and him whom we detest. The yajna performed by us in Trishtup metre goes up in the air. From there it is released and affords happiness to the world by the purification of air and water. By means of this yajna, we keep away the man who hates us, and him whom we dislike. The yajna performed by us in Gayatri metre spreads on the Earth, and being released from there goes up to heaven, and purifies the objects of the Earth. By means of this yajna we remove the man who hates us, and him whom we despise. By the use of food purified through yajna, may we get happiness, for the accomplishment of the yajna, and be combined with lustre.

    इस भाष्य को एडिट करें

    Meaning

    Vishnu, yajna, performed with the ecstatic chant of jagati verses, reached the regions of the sun, and from there eliminated all that opposes us and all that we oppose for the sake of life. Vishnu, yajna, performed with the spontaneous chant of trishtubh verses, rose up to the middle regions of the sky, and from there eliminated all that opposes us and all that we oppose for the sake of life. Vishnu, yajna, performed with the joyous chant of gayatri verses, went over the earth, and from there eliminated all that opposes us and all that we oppose for the sake of life. Feeding on the gifts of nature purified by yajna, let us rejoice, and in the service of the balance and harmony of life and existence, let us rise to the heights of heaven and we’ll be one with the light of knowledge and Dharma.

    इस भाष्य को एडिट करें

    Translation

    Our sacrifice performed with the Јagati metre pervades the high heaven; therefrom is excluded the one, who hates us and whom we hate. (1) Our sacrifice performed with the tristubh metre pervades the mid-space; therefrom is excluded the one, who hates us and whom we hate. (2) Our sacrifice performed with the gayatri metre pervades the earth; therefrom is excluded the one, who hates us and whom we hate. (3) From this food,(4) and from this place of sacrifices(5) we have attained the abode of bliss,(6) and we have become one with light. (7)

    Notes

    In the ritual, the sacrificer makes the three ceremonial Visnu-strides in imitation of that solar deity's strides through the three divisions of the world, i. e. the dyauh, antariksa and prthvi, with this mantra. Visnuh, the sacrifice. Solar deity is also called Visnu. In legend, he is one of the twelve Adityas, the sons of Aditi, the mother of gods. Jagatena chandasa, with the Jagati metre. This implies the importance of various Vedic metres in different types of prayers. Almost supernatural powers seem to be attributed to various metres. Nirbhaktah, निर्गतभागः कृतः, deprived of his share therein; excluded. Traistubhena, with the Tristubh metre. Gayatrena, with the Gayatri metre. Pratisthayah, place of sacrifice. Asyai, is used here in the sense of asyah. Svah, abode of bliss; svarga. Sam abhuma,सगताः अभुम ; have become one with.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    স য়জ্ঞস্ত্রিষু লোকেষু বিস্তৃতঃ সন্ কিং কিং সুখং সাধয়তীত্যুপদিশ্যতে ॥
    সেই যজ্ঞ তিন লোকে বিস্তৃত হইয়া কী কী সুখের সাধন হয় তাহা পরবর্ত্তী মন্ত্রে প্রকাশিত করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- (জাগতেন) সর্ব লোক-লোকান্তরের জন্য সুখ প্রদাতা (ছন্দসঃ) আহ্লাদকারক জগতী ছন্দ দ্বারা আমাদের অনুষ্ঠান কৃত এই (বিষ্ণুঃ) অন্তরিক্ষে স্থিত পদার্থে ব্যাপক যজ্ঞ (দিবি) সূর্য্যের প্রকাশে (ব্যক্রংস্ত) যায় এবং পুনরায় (ততঃ) সেখান হইতে (নির্ভক্তঃ) বিভাগ অর্থাৎ পরমাণুরূপ হইয়া সকল জগৎকে তৃপ্ত করে (য়ঃ) যে বিরোধী শত্রু (অস্মান্) যজ্ঞের অনুষ্ঠানকারী আমাদের সঙ্গে (দ্বেষ্টি) বিরোধ করে (চ) তথা (য়ম্) দন্ড দিয়া শিক্ষা করিবার যোগ্য যে দুষ্ট প্রাণীর সহিত (বয়ম্) আমরা যজ্ঞ অনুষ্ঠানকারী (দ্বিষ্মঃ) অপ্রীতি করি তাহাকে সেই যজ্ঞ হইতে দূর করি । আমরা এই যে (বিষ্ণুঃ) যজ্ঞ (ত্রৈষ্টুভেন) তিন প্রকার সুখ কারী এবং (ছন্দসা) স্বতন্ত্রতা প্রদানকারী ত্রিষ্টুপ্ ছন্দ হইতে অগ্নিতে ভালমত সংযুক্ত করিয়াছে সে (অন্তরিক্ষে) আকাশে (ব্যক্রংস্ত) পৌঁছায়, সে পুনঃ (ততঃ) সেই অন্তরিক্ষ হইতে (নির্ভক্তঃ) পৃথক হইয়া বায়ু ও বর্ষা জলের শুদ্ধি দ্বারা সকল সংসারে সুখ উপস্থিত করায় । (য়ঃ) যে দুঃখদানকারী প্রাণী (অস্মান্) সকলের উপকারকারী আমাদিগকে (দ্বেষ্টি) দুঃখ প্রদান করে (চ) তথা (য়ম্) সকলের অহিতকারী দুষ্টকে (বয়ম্) আমরা সকলের হিতকারী (দ্বিষ্মঃ) পীড়া দিয়া থাকি তাহাকে উক্ত যজ্ঞ হইতে নিবারণ করি । আমরা (বিষ্ণুঃ) যে যজ্ঞ (গায়ত্রেণ) সংসারের রক্ষা সিদ্ধকারী এবং (ছন্দসা) অতি আনন্দ দায়ক গায়ত্রী ছন্দ দ্বারা নিরন্তর করিয়া থাকি (পৃথিব্যাম্) বিস্তারযুক্ত এই পৃথিবীতে (ব্যক্রংস্ত) বিবিধ সুখ প্রাপ্তি হেতু দ্বারা বিস্তৃত হয় (ততঃ) সেই পৃথিবী হইতে (নির্ভক্তঃ) পৃথক হইয়া অন্তরিক্ষে যাইয়া পৃথিবীর পদার্থ সকলের পুষ্টি করে (য়ঃ) যে পুরুষ আমাদের রাজ্যের বিরোধী (অস্মান্) আমরা যাহারা ন্যায়কারী তাহাদের সহিত (দ্বেষ্টি) শত্রুতা করে (চ) তথা (য়ম্) যে শত্রু সহ (বয়ম্) আমরা ন্যায়াধীশ (দ্বিষ্মঃ) শত্রুতা করি তাহার এই উক্ত যজ্ঞ হইতে নিত্য নিষেধ করি । আমরা (অস্মাৎ) যজ্ঞ দ্বারা শুদ্ধকৃত প্রত্যক্ষ (অন্নাৎ) যাহা ভোজন করিবার যোগ্য অন্ন তাহা হইতে (স্বঃ) সুখরূপী স্বর্গ (অগন্ম্) প্রাপ্ত হই তথা (অস্ম্যৈ) এই প্রত্যক্ষ প্রাপ্ত হইবার (প্রতিষ্ঠায়ৈ) প্রতিষ্ঠা অর্থাৎ যাহাতে সৎকার প্রাপ্ত হয় তাহার জন্য (জ্যোতিষা) বিদ্যা ও ধর্মের প্রকাশ দ্বারা সংযুক্ত (সমভূম) ভাল মত হই ॥ ২৫ ॥

    भावार्थ

    ভাবার্থঃ- যে মনুষ্যগণ সুগন্ধি ইত্যাদি পদার্থ অগ্নিতে আহুতি প্রদান করে যাহা পৃথক পৃথক হইয়া সূর্য্যের আলোক তথা ভূমিতে ছড়াইয়া সকল সুখ সিদ্ধ করিয়া থাকে এবং যে বায়ু, অগ্নি, জল ও পৃথিবী ইত্যাদি পদার্থ শিল্প বিদ্যা সিদ্ধ কলাযন্ত্র দ্বারা বিমানাদি যানে যুক্ত করা হয় তাহারা সকলে সূর্য্যালোক বা অন্তরিক্ষে সুখপূর্বক বিহার করে । যে পদার্থ সূর্য্যের কিরণ অথবা অগ্নি দ্বারা পরমাণু রূপ হইয়া অন্তরিক্ষে যাইয়া পুনরায় পৃথিবীর উপর আইসে পুনরায় ভূমি হইতে অন্তরিক্ষ বা তথা হইতে ভূমিতে আসা-যাওয়া করে তাহারাও সংসারকে সুখ প্রদান করে । মনুষ্যদিগের উচিত যে, এই প্রকার বারবার পুরুষকার বলে দোষ, দুঃখ ও শত্রুদেরকে উত্তম প্রকার নিবারণ করিয়া সুখ ভোগ করা বা ভোগানো উচিত এবং যজ্ঞ দ্বারা শুদ্ধ বায়ু, জল, ওষধি এবং অন্ন শুদ্ধি দ্বারা আরোগ্য, বুদ্ধি ও শরীরের বলের বৃদ্ধি দ্বারা অত্যন্ত সুখ প্রাপ্ত হইয়া বিদ্যার প্রকাশ দ্বারা নিত্য প্রতিষ্ঠা প্রাপ্ত করা উচিত ॥ ২৫ ॥

    मन्त्र (बांग्ला)

    দি॒বি বিষ্ণু॒র্ব্য᳖ক্রꣳস্ত॒ জাগ॑তেন॒ চ্ছন্দ॑সা॒ ততো॒ নির্ভ॑ক্তো॒ য়ো᳕ऽস্মান্ দ্বেষ্টি॒ য়ং চ॑ ব॒য়ং দ্বি॒ষ্মো᳕ऽন্তরি॑ক্ষে॒ বিষ্ণু॒র্ব্য᳖ক্রꣳস্ত॒ ত্রৈষ্টু॑ভেন॒ চ্ছন্দ॑সা॒ ততো॒ নির্ভ॑ক্তো॒ য়ো᳕ऽস্মান্ দ্বেষ্টি॒ য়ং চ॑ ব॒য়ং দ্বি॒ষ্মঃ । পৃ॑থি॒ব্যাং বিষ্ণু॒র্ব্য᳖ক্রꣳস্ত গায়॒ত্রেণ॒ চ্ছন্দ॑সা॒ ততো॒ নির্ভ॑ক্তো॒ য়ো᳕ऽস্মান্ দ্বেষ্টি॒ য়ং চ॑ ব॒য়ং দ্বি॒ষ্মো᳕ऽস্মাদন্না॑দ॒স্যৈ প্র॑তি॒ষ্ঠায়া॒ऽঅগ॑ন্ম॒ স্বঃ᳕ সং জ্যোতি॑ষাভূম ॥ ২৫ ॥

    ऋषि | देवता | छन्द | स्वर

    দিবীত্যস্য ঋষিঃ স এব । সর্বস্য বিষ্ণুর্দেবতা । দিবীত্যারভ্য দ্বিষ্ম ইত্যন্তস্য নিচৃদার্চী । তথাऽন্তরিক্ষম্ ইত্যারভ্য দ্বিষ্মঃ পর্য়্যন্তস্যার্চী পংক্তিশ্ছন্দঃ । (উভয়ত্র) পঞ্চমঃ স্বরঃ ।
    পৃথিব্যামিত্যারভ্যান্তপর্য়্যন্তস্য ভুরিগ্ জগতী ছন্দো নিষাদঃ স্বরশ্চ ॥

    इस भाष्य को एडिट करें
    Top