Loading...
यजुर्वेद अध्याय - 2

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 2/ मन्त्र 20
    ऋषिः - परमेष्ठी प्रजापतिर्ऋषिः देवता - अग्निसरस्वत्यौ देवते छन्दः - भूरिक् ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    143

    अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दुर॑द्म॒न्याऽअ॑वि॒षं नः॑ पि॒तुं कृ॑णु। सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑॥२०॥

    स्वर सहित पद पाठ

    अग्ने॑। अ॒द॒ब्धा॒यो॒ऽ इत्य॑दब्धऽआ॒यो। अ॒शी॒त॒म॒। अ॒शि॒त॒मेत्य॑शिऽतम। पा॒हि। मा॒। दि॒द्योः। पा॒हि। प्रसि॑त्या॒ इति॒ प्रऽसि॑त्यै। पा॒हि। दुरि॑ष्ट्या॒ इति॒ दुःऽइ॑ष्ट्यै। पा॒हि। दु॒र॒द्म॒न्या इति॑ दुःऽअद्म॒न्यै॑। अ॒वि॒षम्। नः॒। पि॒तुम्। कृ॒णु॒। सु॒षदा॑। सु॒सदेति॑ सु॒ऽसदा॑। योनौ॑। स्वाहा॑। वाट्। अ॒ग्नये॑। सं॒वे॒शप॑तय॒ इति॑ संवे॒शऽप॑तये। स्वाहा॑। सर॑स्वत्यै। य॒शो॒भ॒गिन्या॒ इति॑ यशःऽभ॒गिन्यै॑। स्वाहा॑ ॥२०॥


    स्वर रहित मन्त्र

    अग्ने दब्धायो शीतम पाहि मा दिद्योः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्याऽअविषन्नः पितुङ्कृणु सुषदा योनौ स्वाहा वाडग्नये सँवेशपतये स्वाहा सरस्वत्यै यशोभगिन्यै स्वाहा ॥


    स्वर रहित पद पाठ

    अग्ने। अदब्धायोऽ इत्यदब्धऽआयो। अशीतम। अशितमेत्यशिऽतम। पाहि। मा। दिद्योः। पाहि। प्रसित्या इति प्रऽसित्यै। पाहि। दुरिष्ट्या इति दुःऽइष्ट्यै। पाहि। दुरद्मन्या इति दुःऽअद्मन्यै। अविषम्। नः। पितुम्। कृणु। सुषदा। सुसदेति सुऽसदा। योनौ। स्वाहा। वाट्। अग्नये। संवेशपतय इति संवेशऽपतये। स्वाहा। सरस्वत्यै। यशोभगिन्या इति यशःऽभगिन्यै। स्वाहा॥२०॥

    यजुर्वेद - अध्याय » 2; मन्त्र » 20
    Acknowledgment

    संस्कृत (2)

    विषयः

    अथ सोऽग्निः कीदृशः किमर्थः प्रार्थनीयश्चेत्युपदिश्यते॥

    अन्वयः

    हे अदब्धायोऽशीतमाग्ने जगदीश्वर! त्वं यज्ञं दुरिष्ट्यै पाहि। मां दिद्योः प्रमादाद् दुःखात् पाहि, प्रसित्यै पाहि, दुरद्मन्यै पाहि, नोऽस्माकमविषं पितुं कृणु नोऽस्मान् सुषदायां योनौ स्वाहा वाट् सत्क्रियायां च कृणु, वयं यशोभगिन्यै स्वाहा सरस्वत्यै संवेशपतयेऽग्नये तुभ्यं स्वाहा नमश्च नित्यं कुर्म इत्येकः॥ हे जगदीश्वर! योऽयं भवताऽदब्धायुरशीतमोग्निर्निर्मितः स यज्ञं दुरिष्ट्याः पाति। मां दिद्योः पाति। प्रसित्याः पाति। दुरद्मन्याः पाति। नोऽस्माकमविषं पितुं करोति, सुषदायां योनौ स्वाहा वाट् सत्क्रियायां च हेतुरस्ति वयं तस्मै संवेशपतयेऽग्नये स्वाहा, यशोभगिन्यै सरस्वत्यै स्वाहा कुर्म इति द्वितीयः॥२०॥

    पदार्थः

    (अग्ने) जगदीश्वर! भौतिको वा (अदब्धायो) अदब्धमहिंसितमायुर्यस्मात् तत्संबुद्धौ, अदब्धायुर्वा। (अशीतम) अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितस्तत्संबुद्धौ। स वा। अन्येषामपि दृश्यते [अष्टा॰६.३.१३७] इति दीर्घः (पाहि) रक्ष पाति वा (मा) माम् (दिद्योः) अतिदुःखात्। दिवु धातोः कुर्भ्रश्च (उणा॰१.२२) इति चकारेण कुप्रत्ययो बाहुलकाद् वकारलोपश्च (पाहि) रक्ष रक्षति वा (प्रसित्यै) प्रकृष्टा चासौ सितिर्बन्धनं यस्या तस्याः। अत्र पञ्चम्यर्थे चतुर्थी (पाहि) पाति वा (दुरिष्ट्यै) दुष्टा इष्टिर्यजनं यस्यां तस्याः। अत्र पञ्चम्यर्थे चतुर्थी। (पाहि) पाति वा। (दुरद्मन्यै) दुष्टा अद्मनी अदनक्रिया यस्यां तस्याः। अत्रापि पञ्चम्यर्थे चतुर्थी (अविषम्) विषादिदोषरहितम् (नः) अस्माकम् (पितुम्) अन्नम्। पितुरित्यन्ननामसु पठितम् (निघं॰२.७) (कृणु) कुरु करोति वा। अत्र सर्वत्र पक्षे लडर्थे लोट् (सुषदा) सुखेन सीदन्ति यस्यां तस्याम्। अत्र सुपां सुलुक् [अष्टा॰७.१.३९] इति ङेः स्थान आकारादेशः (योनौ) युवन्ति यस्यां सा योनिर्गृहं जन्मान्तरं वा तस्याम्। योनिरिति गृहनामसु पठितम् (निघं॰३.४) (स्वाहा) सु आहानया सा (वाट्) क्रियार्थे। (अग्नये) परमेश्वराय भौतिकाय वा (संवेशपतये) सम्यक् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै (स्वाहा) सुष्ठु आहुतं करोति यस्यां सा (सरस्वत्यै) सरन्ति जानन्ति येन तत् सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै। सरस्वतीति वाङ्नामसु पठितम् (निघं॰१.११) (यशोभगिन्यै) यशांसि सत्यवचनादीनि कर्माणि भजितुं शीलं यस्यास्तस्यै (स्वाहा) स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा॥ अयं मन्त्रः (शत॰१.७.३.१९-२०) व्याख्यातः॥२०॥

    भावार्थः

    अत्र श्लेषालङ्कारः। मनुष्यैः सर्वथा सर्वस्माद् दुःखाद् रक्षक उत्तमजन्मनिमित्तकर्माज्ञापक उत्तमभोगप्रदाता जगदीश्वरोऽस्ति, स एव सदा सेवनीयः। तेन स्वसृष्टौ सूर्य्यविद्युत्प्रत्यक्षरूपेण योऽयमग्निः प्रकाशितः, सोऽपि सम्यक् विद्योपकारे संयोजितः सन् सर्वथा रक्षणोत्तमभोगहेतुर्भवति। यया कीर्तिहेतुभूतया सत्यलक्षणया वेदरूपया वाचोत्तमानि जन्मानि सर्वपदार्थेभ्य उत्कृष्टा विविधा विद्या च प्रकाशिता भवति, सा सदैव स्वीकर्त्तव्या स्वीकारयितव्या वेति। अत्र नमो यज्ञ इति च पदद्वयं पूर्वस्मान्मन्त्रादाकर्षितम्। पूर्वमन्त्रोक्तानां मनुष्यैरनुष्ठितानां कर्मणां फलमनेनोक्तमिति वेद्यम्॥२०॥

    इस भाष्य को एडिट करें

    विषयः

    अथ सोऽग्निः कीदृशः किमर्थः प्रार्थनीयश्चेत्युपदिश्यते ॥

    सपदार्थान्वयः

    हे अदब्धायो ! अदब्धहिंसितमायुर्यस्मात् तत्सम्बुद्धौ! अशीतम! अश्नुते व्याप्नोति चराऽचरं यज्ञं सोऽतिशयितस्तत्सम्बुद्धौ! अग्ने!=जगदीश्वर ! त्वं यज्ञं दुरिष्ट्यै दुष्टा इष्टिर्यजनं यस्यां तस्याः पाहि रक्ष (पाति वा), [मा]=मां दिद्यो:=प्रमादाद् दुःखाद् अतिदुःखात् पाहि रक्ष, प्रसित्यै प्रकृष्टा चाऽसौ सितिर्बन्धनं यस्यां तस्याः पाहि (पाति वा), दुरद्मन्यै दुष्टा अद्मनी=अदनक्रिया यस्यां तस्याः पाहि रक्ष (पाति वा)।

    नः अस्माकमविषं विषाऽऽदिदोषरहितं पितुम् अन्नं कृणु कुरु ।

    नः=अस्मान् [सुषदा]=सुषदायां सुखेन सीदन्ति यस्यां तस्यां योनौ युवन्ति यस्यां सा योनिगृहं जन्माऽन्तरं वा तस्यां स्वाहा सु आहाऽनया सा वाट्=सत्क्रियायां च कृणु कुरु ।

    वयं यशोभगिन्यै यशांसि=सत्यवचनादीनि कर्माणि भजितुं' शीलं यस्यास्तस्यै स्वाहा स्वकीय पदार्थ प्रत्याह यस्यां क्रियायां सा, सरस्वत्यै सरन्ति=जानन्ति येन तत्सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै स्वाहा सुष्ठु आहुतं करोति यस्यां सा।

    संदेशपतये सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै अग्नये तुभ्यं परमेश्वराय (भौतिकाय वा) स्वाहा सुष्ठु आहुतं करोति यस्यां सा, नमश्च नित्यं कुर्मः । इत्येकः

    हे जगदीश्वर! योऽयं भवता [अदब्धायो]=अदब्धायुः अदब्धहिसितमायुर्यस्मात् [अशीतम्]=अशीतमः= अग्निः अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितः निर्मितः स यज्ञं [दुरिष्ट्य]=दुरिष्ट्याः दुष्टा इष्टिर्यजनं यस्यां तस्याः [पाहि]=पाति, [मा]=मां दिद्योः अतिदुःखात् [पाहि]=पाति रक्षति, [प्रसित्य] =प्रसित्याः प्रकृष्टा चाऽसौ सितिर्बन्धनं यस्यां तस्याः [पाहि]=पाति, [दुरद्मन्ये]=दुरद्मन्याः दुष्टा अद्मनी=अदनक्रिया यस्यां तस्याः [पाहि]=पाति

    नः अस्माकमविषं विषादिदोषरहितं पितुम् अन्नं [कृणु]=करोति

    [सुषदा]=सुषदायां सुखेन सीदन्ति यस्यां तस्यां योनौ युवन्ति यस्यां सा योनिर्गहं जन्माऽन्तरं वा तस्यां स्वाहा सु आहाऽनया सा, वाट्=सत्क्रियायां च हेतुरस्ति, वयं तस्मै संवेशपतये सम्यग् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पतिः पालकस्तस्मै अग्नये भौतिकाय स्वाहा सुष्ठु आहुतं करोति यस्यां सा,

    यशोभगिन्यै यशांसि सत्यवचनादीनि कर्माणि भजितुं' शीलं यस्यास्तस्यै सरस्वत्यै सरन्ति जानन्ति येन तत्सरो ज्ञानं, तत्प्रशस्तं विद्यते यस्यां वाचि तस्यै स्वाहा स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा कुर्मःइति द्वितीयः ॥ २ । २० ॥

    पदार्थः

    (अग्ने) जगदीश्वर ! भौतिको वा (अदब्धायो) अदब्धहिंसितमायुर्यस्मात् तत्संबुद्धौ अदब्धायुर्वा (अशीतम) अश्नुते व्याप्नोति चराचरं यज्ञं सोऽतिशयितस्तत्संबुद्धौ स वा । अन्येषामपि दृश्यत इति दीर्घः (पाहि) रक्ष पाति वा (मा) माम् (दिद्योः) अतिदुःखात् । दिवु धातोः 'कुर्मश्च' । उ० ॥ १ ॥ २२ ॥ इति चकारेण कुप्रत्ययो बाहुलकाद्वकारलोपश्च (पाहि) रक्ष रक्षति वा (प्रसित्यै) प्रकृष्टा चासौ सितिर्बन्धनं यस्यां तस्याः । अत्र पञ्चम्यर्थे चतुर्थी (पाहि) पाति वा (दुरिष्ट्यै ) दुष्टा इष्टिर्यजनं यस्यां तस्याः । अत्रापि पंचम्यर्थे चतुर्थी (पाहि) पाति वा (दुरद्मन्यै) दुष्टा अद्मनी अनदक्रिया यस्यां तस्याः । अत्रापि पंचम्यर्थे चतुर्थी (अविषम् ) विषादिदोषरहितम् (नः) अस्माकम् (पितुम्) अन्नम् । पितुरित्यन्ननामसु पठितम् ॥ निघं० २ । ७ ॥ (कृणु) कुरु करोति वा । अत्र सर्वत्र पक्षे लडर्थे लोट् (सुषदा) सुखेन सीदन्ति यस्यां तस्याम् । अत्र सुपां सुलुगिति ङेः स्था आकारादेशः (योनौ) युवन्ति यस्यां सा योनिर्गृहं जन्मान्तरं वा तस्याम् । योनिरिति गृहनामसु पठितम् ॥ निघं० ३ । ४ ॥ (स्वाहा) सु आहानया सा (वाट्) क्रियार्थे । (अग्नये) परमेश्वराय भौतिकाय वा (संवेशपतये) सम्यक् विशन्ति ये ते पृथिव्यादयः पदार्थास्तेषां पति: पालकस्तस्मै (स्वाहा) सुष्ठु आहुतं करोति यस्यां सा (सरस्वत्यै) सरन्ति जानन्ति येन तत् सरो ज्ञानं तत्प्रशस्तं विद्यते यस्यां वाचि तस्य । सरस्वतीति वाङ्नामसु पठितम् ॥ निघं० १ । ११ ॥ (यशोभगिन्यै) यशांसि सत्यवचनादीनि कर्माणि भजितुं शीलं यस्यास्तस्यै (स्वाहा) स्वकीयं पदार्थं प्रत्याह यस्यां क्रियायां सा ॥ अयं मन्त्रः श० १ । ९ । २ । २० व्याख्यातः ॥ २० ॥

    भावार्थः

    [हे...अग्ने=जगदीश्वर ! त्वं....[मा]=मां दिद्यो:=प्रमादाद् दुःखात् पाहि, प्रसित्यै पाहि, दुरन्द्मयै पाहि]

    अत्र श्लेषालङ्कारः ॥ मनुष्यैर्यः सर्वथा सर्वस्माद् दुःखाद् रक्षक उत्तम जन्म निमित्त कर्माज्ञापक, उत्तमभोगप्रदाता जगदीश्वरोऽस्ति, स एव सदा सेवनीयः।

    • भक्तूं।

    [हे जगदीश्वर ! योऽयं भवता'अशीतमः=अग्निनिर्मितः स....[मा]=मां [पाहि]=पाति,....नः=

    अस्माकमविषं पितुं [कृणु]--करोति ]

    तेन स्वसृष्टौ सूर्य विद्युत् प्रत्यक्षरूपेण योऽयमग्निः प्रकाशितः सोऽपि सम्यक् विद्योपकारे संयोजितः सन् सर्वथा रक्षणोत्तमभोगहेतुर्भवति ।

    [वयं...यशोभगिन्यै सरस्वत्यै स्वाहा कुर्मः]

    यया कीर्तिहेतुभूतया सत्यलक्षणया वेदरूपया वाचोत्तमानि जन्मानि सर्वपदार्थेभ्यः उत्कृष्टा विविधा विद्या च प्रकाशिता भवति, सा सदैव स्वीकर्त्तव्या, स्वीकारयितव्या वेति ।

    [अनुवृत्तिमाह--]

    अत्र नमो यज्ञ इति पदद्वयं पूर्वस्मान्मन्त्रादाकार्षितम् ।

    [मन्त्रसंगतिमाह--]

    पूर्वमन्त्रोक्तानां मनुष्यैरनुष्ठितानां कर्मणां फलमनेनोक्तमिति वेद्यम् ॥ २ । २०॥

    भावार्थ पदार्थः

    दिद्यो:=सर्वस्माद् दुःखात् । अशीतम्=सूर्यविद्युत् प्रत्यक्षरूपोऽग्निः । यशोभगिन्यै= कीर्तिहेतुभूताय । सरस्वत्यै=सत्य लक्षण--वेद रूप—वाचे ।

    विशेषः

    परमेष्ठी प्रजापतिः । अग्निसरस्वत्यौ=ईश्वरो वेदवाणी च ॥ भुरिग्ब्राह्मीत्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें

    हिन्दी (4)

    विषय

    उक्त अग्नि कैसा और क्यों प्रार्थना करने योग्य है, सो अगले मन्त्र में प्रकाशित किया है॥

    पदार्थ

    हे (अदब्धायो) निर्विघ्न आयु देने वाले (अग्ने) जगदीश्वर! आप (अशीतम) चराचर संसार में व्यापक यज्ञ को (दुरिष्ट्यै) दुष्ट अर्थात् वेदविरुद्ध यज्ञ से (पाहि) रक्षा कीजिये (मा) मुझे (दिद्योः) अति दुःख से (पाहि) बचाइये तथा (प्रसित्यै) भारी-भारी बन्धनों से (पाहि) अलग रखिये (दुरद्मन्यै) जो दुष्ट भोजन करना है, उस विपत्ति से (पाहि) बचाइये और (नः) हमारे लिये (अविषम्) विष आदि दोषरहित (पितुम्) अन्नादि पदार्थ (कृणु) उत्पन्न कीजिये तथा (नः) हम लोगों को (सुषदा) सुख से स्थिरता को देने वाले (योनौ) घर में (स्वाहा) (वाट्) वेदोक्त वाक्यों से सिद्ध होने वाली उत्तम क्रियाओं में स्थिर (कृणु) कीजिये, जिससे हम लोग (यशोभगिन्यै) सत्यवचन आदि उत्तम कर्मों का सेवन करने वाली (सरस्वत्यै) पदार्थों के प्रकाशित कराने में उत्तम ज्ञानयुक्त वेदवाणी के लिये (स्वाहा) धन्यवाद वा (संवेशपतये) अच्छी प्रकार जिन पृथिव्यादि लोकों में प्रवेश करते हैं, उनके पति अर्थात् पालन करनेहारे जो (अग्नये) आप हैं, उनके लिये (स्वाहा) धन्यवाद और (नमः) नमस्कार करते हैं॥१॥ हे भगवन् जगदीश्वर! आपने जो यह (अदब्धायो) निर्विघ्न आयु का निमित्त (अग्ने) भौतिक अग्नि बनाया है, वह भी (अशीतम) सर्वत्र व्यापक यज्ञ को (दुरिष्ट्यै) दुष्ट यज्ञ से (पाहि) रक्षा करता है तथा (मा) मुझे (दिद्योः) अति दुःखों से (पाहि) बचाता है (प्रसित्यै) बड़े-बड़े दारिद्र्य के बन्धनों से (पाहि) बचाता है तथा (दुरद्मन्यै) दुष्ट भोजन कराने वाली क्रियाओं से (पाहि) बचाता है और (नः) हमारे (पितुम्) अन्न आदि पदार्थ (अविषम्) विष आदि दोषरहित (कृणु) कर देता है वह (सुषदा) सुख से स्थिति देने वाले (योनौ) घर अथवा दूसरे जन्मों में (स्वाहा) (वाट्) वेदोक्त वाक्यों से सिद्ध होने वाली क्रियाओं का हेतु है, हम लोग उस (संवेशपतये) पृथिव्यादि लोकों के पालने वाले (अग्नये) भौतिक अग्नि को ग्रहण करके (स्वाहा) होम तथा उसके साथ (यशोभगिन्यै) (सरस्वत्यै) उक्त गुण वाली वेदवाणी की प्राप्ति के लिये (स्वाहा) परमात्मा का धन्यवाद करते हैं॥२०॥

    भावार्थ

    इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को जो सर्वव्यापक सब प्रकार से रक्षा करने, उत्तम जन्म देने, उत्तम कर्म कराने और उत्तम विद्या वा उत्तम भोग देने वाला जगदीश्वर है, उसी का सेवन सदा करना योग्य है तथा जो यह अपनी सृष्टि में परमेश्वर ने भौतिक अग्नि, प्रत्यक्ष सूर्य्यलोक और बिजुली रूप से प्रकाशित किया है वह भी अच्छी प्रकार विद्या से उपकार लेने में संयुक्त किया हुआ सब प्रकार से रक्षा और उत्तम भोग का हेतु होता है। जिसकी कीर्ति के निमित्त सत्यलक्षणयुक्त वेदवाणी से उत्तम जन्म अथवा सब पदार्थों से अच्छी-अच्छी विद्या प्रकाशित होती हैं। वे सब विद्वानों के स्वीकार करने योग्य हैं। इस मन्त्र में (नमः) और (यज्ञ) ये दोनों पद पूर्व मन्त्र से लिये हैं॥२०॥

    इस भाष्य को एडिट करें

    विषय

    उक्त अग्नि कैसा है और क्यों प्रार्थना करने योग्य है, यह उपदेश किया है ॥

    भाषार्थ

    हे (अदब्धायो !) निर्विघ्न आयु को देने वाले ! (अशीतम् !) चराचर संसार यज्ञ में अत्यन्त व्यापक ! (अग्ने !) जगदीश्वर ! आप यज्ञ की (दुरिष्ट्यै) दुष्ट कर्मों से (पाहि) रक्षा करो और (मा) मेरी (दिद्योः) प्रमाद रूप अत्यन्त दुःख से (पाहि) रक्षा करो, तथा  (प्रसित्यै) भारी बन्धन से (पाहि) रक्षा करो, (दुरद्मन्यै) दुष्ट भोजन से (पाहि) रक्षा करो।

    (नः) हमारा (अविषम्) विषादि से रहित (पितुम्) अन्न (कृणु) करो।

    (नः) हमें [सुषदा] जिसमें सुख से रहते हैं उस (योनौ) घर अथवा जन्मान्तर (स्वाहा) अत्यन्त प्रशंसनीय (वाट्) शुभ कर्म्मों में (कृणु) स्थिर कीजिए।

     हम लोग (यशोभगिन्यै) यश, सत्यवचन और कर्म्मों का सेवन करने वाली (सरस्वत्यै) प्रशस्त ज्ञान से युक्त वेदवाणी के लिए (स्वाहा) स्वाहा करते हैं अर्थात् उसे स्वीकार करते हैं।

    (संवेशपतये) संवेश अर्थात् पृथिवी आदि पदार्थों के पालक (अग्नये) तुझ परमेश्वर के लिए हम (स्वाहा) नित्य ही नमस्कार करते हैं॥ यह मन्त्र का पहिला अर्थ हुआ॥

     हे जगदीश्वर ! जो यह आपने (अदब्धायो) निर्विघ्न आयु का निमित्त (अशीतम्) सर्वत्र व्यापक अग्नि रचा है, वह यज्ञ की (दुरिष्ट्यै) दुष्ट यज्ञ से (पाहि) रक्षा करता है, [मा] मेरी (दिद्योः) अति दुःख से (पाहि) रक्षा करता है, (प्रसित्यै) बड़े बन्धन से (पाहि) रक्षा करता है, (दुरद्मन्यै) दुष्ट भोजन से (पाहि) रक्षा करता है। और—

    (नः) हमारे (अविषम्) विष आदि दोषों से रहित (पितुम्) अन्न को (कृणु) सिद्ध करता है।

    [सुषदा] सुख-दायक (योनौ) घर वा जन्मान्तर में (स्वाहा) जिसे हम स्वीकार करते हैं (वाट्) और जो यज्ञ आदि शुभ कर्मों का हेतु है, हम उस (संवेशपतये) पृथिवी आदि पदार्थों का पालने करने वाले (अग्नये) भौतिक अग्नि को (स्वाहा) अच्छी आहुति देते हैं।

     (यशोभगिन्यै) यश-दायक सत्यभाषण आदि का उपदेश करने वाली (सरस्वत्यै) जिसमें कि प्रशंसनीय ज्ञान है, उस वेदवाणी को (स्वाहा) हम अपनाते हैं, उस का सम्मान करते हैं॥ यह मन्त्र का दूसरा अर्थ है॥२।२०॥

    भावार्थ

    इस मन्त्र में श्लेष अलंकार है॥ मनुष्य, जो सब प्रकार से सब दुःखों से रक्षा करने वाला, उत्तम जन्म के हेतु शुभ कर्मों का उपदेश करने वाला, उत्तम भोगों का दाता परमेश्वर है, इसी की सदा उपासना करें।

    उस ईश्वर ने अपनी सृष्टि में सूर्य, विद्युत्, और प्रत्यक्ष रूप में जो यह अग्नि प्रकाशित किया है वह भी उत्तम रीति से विद्या के द्वारा उपकार में लगाया हुआ सब प्रकार से रक्षा और उत्तम भोग-प्राप्ति का हेतु बनता है।

     जिस कीर्ति की हेतु, सत्यलक्षण से युक्त वेदवाणी से उत्तम जन्मों की प्राप्ति, सब पदार्थों से उत्तम विविध प्रकार की विद्या प्रकाशित होती है वह सदा स्वयं स्वीकार करने योग्य तथा अन्यों से भी स्वीकार कराने योग्य है।

    यहां नमःऔर यज्ञये दो पद पहले मन्त्र से ग्रहण किये हैं।

    पहले मन्त्र में कहे, मनुष्यों के द्वारा अनुष्ठान किये गये कर्मों का फल इस मन्त्र के द्वारा उपदेश किया गया है, ऐसा समझें॥२।२०॥

    भाष्यसार

    १. अग्नि--यहां श्लेष अलंकार से अग्नि शब्द के ईश्वर और भौतिक अग्नि दो अर्थ हैं। प्रथम ईश्वर के विषय में कहते हैं--अग्नि अर्थात् ईश्वर निर्विघ्न आयु को प्रदान करने वाला, चराचर संसार यज्ञ को सर्वाधिक व्याप्त करने वाला है।

    . ईश्वर प्रार्थना--हे अग्ने! जगदीश्वर आप हमें दुष्ट कर्मों, प्रमाद, एवं सब प्रकार के दुःखों, सांसारिक बन्धनों से मुक्त करो, उत्तम भोग प्रदान करके दुष्ट भोगों से हमारी रक्षा करो। हमारे अन्न को विष आदि दोषों से रहित करो। आप हमें सभा में, घर में एवं जन्मान्तर में भी प्रशंसा योग्य सत्कार से युक्त करो। हम लोग यशदायक सत्यभाषण आदि कर्मों का नित्य अनुष्ठान करें। जो अपने पदार्थ हैं, उन्हें ही अपनायें। दूसरे के पदार्थों को लेने की कभी इच्छा न करें। प्रशस्त ज्ञान वाली वेदवाणी की प्राप्ति के लिए होम यज्ञ आदि शुभ कर्मों को करते रहें। पृथिवी आदि पदार्थ सब आपके अन्दर प्रविष्ट हैं, आप से बाहर नहीं हैं, आप ही इनके पति=पालक हो,आपकी प्राप्ति के लिए हम श्रेष्ठ कर्म करते हैं और नित्य नमस्कार करते हैं।

     ३. अग्नि (भौतिक)--यह भौतिक अग्नि निर्विघ्न आयु का निमित्त है। सब चराचर जगत् में व्याप्त है। यज्ञ का रक्षक है, दुःखों का निवारक है, बन्धन को दूर करने वाला हैं, दुष्ट भोजन क्रिया से बचाता है, अन्न को विष आदि दोषों से रहित करता है, सभा, घर, वा जन्मान्तर में सत्कार का हेतु है।

    हम लोग जो अग्नि, पृथिवी आदि का पालक है उसकी शुद्धि के लिये होम करें। यशवर्द्धक वेदवाणी की प्राप्ति के लिये सदा सत्य भाषण करें॥२।२०॥

    विशेष

    परमेष्ठी प्रजापतिः। अग्निसरस्वत्यौ=इश्वरो वेदवाणी च॥ भुरिग्ब्राह्मीत्रिष्टुप्। धैवतः॥

    इस भाष्य को एडिट करें

    विषय

    विद्याभ्यसनं व्यसनं, हरिपादसेवनं व्यसनम्

    पदार्थ

    पिछले मन्त्र की समाप्ति इन शब्दों पर थी कि यज्ञ में स्थित होकर तू मुझमें स्थित हो। प्रस्तुत मन्त्र का विषय यह है कि यज्ञ में स्थिति कैसे हों ? हमारा जीवन यज्ञमय हो, अतः हम प्रभु से प्रार्थना करते हैं— १. ( अग्ने ) = हमारी सब उन्नतियों के साधक हे प्रभो! ( अदब्धायो ) = [ अ+दब्ध+आयु = मनुष्य ] जिसके आश्रय में मनुष्यों का नाश नहीं होता अथवा [ इ गतौ से आयु ] अहिंसित गतिवाले! ( अशीतम ) = [ अश् व्याप्तौ ] सर्वाधिक व्याप्त सर्वव्यापक प्रभो! ( मा ) = मुझे ( दिद्योः ) = द्यूतरूप घातक वृत्ति से ( पाहि ) = बचाइए। मुझमें जुए की भावना उत्पन्न न हो। मैं सदा श्रम से ही धनार्जन की वृत्तिवाला बनूँ। अक्षैर्मा दीव्यः कृषिमित् कृषस्व—पाशों से मत खेल, कृषि ही कर—वेद में दिये गये आपके इस उपदेश को मैं कभी न भूलूँ। 

    २. इस प्रकार पुरुषार्थ से धन कमाने की वृत्तिवाला बनाकर आप मुझे ( प्रसित्यै—प्रसित्याः ) = विषयों के बन्धन से ( पाहि ) = सुरक्षित कीजिए। मैं किसी विषय-बन्धन में न पड़ जाऊँ। मुझे सांसारिक विषयों का चस्का न लग जाए। 

    ३. ( दुरिष्ट्यै—दुरिष्ट्याः ) = मुझे अशुभ इच्छाओं से ( पाहि ) = सुरक्षित कीजिए। ‘मुझमें अशुभ कामनाएँ उत्पन्न ही न हों’। इसके लिए ( दुरद्मन्याः ) = अशुभ भोजन से ( पाहि ) = बचाइए। आहार के शुद्ध होने पर अन्तःकरण भी शुद्ध रहता है और अशुभ इच्छाओं के उत्पन्न होने का प्रश्न ही नहीं रहता। वस्तुतः यहाँ ‘दिद्यु, प्रसिति, दुरिष्टि तथा दुरद्मनी’ में एक विशेष कार्यकारण सम्बन्ध है। अशुद्ध भोजन न होने पर अशुभ इच्छाएँ नहीं होतीं, अशुभ इच्छाओं के न होने पर मनुष्य विषयों की ओर नहीं झुकता और विषयासक्ति न होने पर मनुष्य द्यूतवृत्ति से धन कमाने की ओर नहीं झुकता।

    हे प्रभो! ( नः ) = हमारे ( पितुम् ) = अन्न को ( अविषम् ) = विषरहित ( कृणु ) = कीजिए। हमारे भोजनों में किसी प्रकार के मद-जनक व स्वास्थ्य-विघातक अंश न हों। 

    ६. इस प्रकार शुद्ध भोजन से शुद्ध मन व शरीरवाला होकर तू ( योनौ ) = इस गृह में  ( सु-षदा ) = उत्तम प्रकार से आसीन हो। 

    ७. ( स्वाहा ) = तू [ स्व+हा ] स्वार्थत्याग की वृत्तिवाला बन और ( वाट् ) = सभी को सुख प्राप्त करानेवाला हो [ वह प्रापणे ] 

    ८. ( अग्नये ) = सब उन्नतियों के साधक ( संवेशपतये ) = निद्रा के द्वारा रक्षण करनेवाले प्रभु के लिए ( स्वाहा ) = तू अपना समर्पण कर। प्रभु ने हमारी उन्नति के लिए ही इस ‘निद्रा’ का निर्माण किया है। इसमें कुछ देर के लिए हम सब कष्टों को भूल जाते हैं, शरीर की सब टूट-फूट ठीक हो जाती है, उत्पन्न हुए कुछ मल दूर हो जाते हैं और हम अगले दिन के कार्यक्रम के लिए उद्यत हो जाते हैं। रात्रि में सोते समय हम प्रभु का ध्यान करते हुए सो जाएँ तो सारी रात प्रभु से हमारा सम्पर्क बना रहता है और हम अद्भुत आनन्द का अनुभव करते हैं। 

    ९. ( सरस्वत्यै ) = ज्ञान की अधिष्ठात्री देवता सरस्वती के लिए जोकि ( यशोभगिन्यै ) = यश की भगिनी—सेवन करनेवाली है, उस ज्ञानाधिदेवता के लिए ( स्वाहा ) = तू अपने को समर्पित कर। रात्रि में निरन्तर तेरा प्रभु-स्मरण व प्रभु-सम्पर्क चले तो तेरा दिन ज्ञान की उपासना में बीते। इस प्रकार दिन में तेरे दो ही व्यसन हों—प्रभु-पाद-सेवन तथा सरस्वती का आराधन— विद्याभ्यसनं व्यसनं, हरिपादसेवनं व्यसनम्

    भावार्थ

    भावार्थ — हमारा भोजन उत्तम हो, इच्छाएँ उत्तम हों, हम विषय-बन्धन में न बँधें, द्यूतवृत्ति से ऊपर उठें। रात्रि में प्रभु का स्मरण करते हुए सो जाएँ, निद्रा में हम प्रभु का ही स्वप्न लें और हमारा दिन ज्ञान-प्राप्ति में व्यतीत हो। यह ज्ञान हमें यशस्वी बनाये।

    इस भाष्य को एडिट करें

    विषय

    दुःख, अविद्या, पाप से रक्षा, सुख शान्ति, उत्तम ज्ञान की प्राप्ति ।

    भावार्थ

    हे (अग्ने) ज्ञानवन् ! हे (अदब्धायो ) अनष्टजीवन ! अमृत ! प्रभो ! सुरक्षित जीवन वाले या जीवनों की रक्षा करने हारे स्वामिन्! हे (अशीतम् ) सर्वव्यापक ! सर्वत्र विद्यमान ! आप ( मा ) मुझको (दिद्योः) अति प्रदीप्त वज्र या कठोर दारुण दण्ड-रूप दुःख से ( पाहि ) रक्षा करो । (प्रसित्यै पाहि ) भारी बन्धनकारिणी अविद्या या पाप-प्रवृत्ति से मेरी रक्षा करो । ( दुरिष्ट्यै पाहि ) दुष्ट जनों की संगति से बचाओ । ( दुरद्मन्यै पाहि ) दुष्ट अन्न के भोजन से रक्षा करो। ( नः ) हमारे ( पितुम् ) अन्नको( अविषम् कृणु) विष रहित करो। (योनौ) घर में ( सुषदा ) उत्तम रूप से विराजने योग्य भूमि हो । ( अग्नये स्वाहा वाट् ) उस ज्ञानवान्, अग्नि के समान प्रतापी स्वामी से यह उत्तम प्रार्थना है। यह हमें उत्तम फल प्राप्त करावे ! ( संवेशपतये स्वाहा ) उत्तम रीति से बसने वाले पृथिवी आदि लोकों के पालक से यह उत्तम प्रार्थना है । ( यश:-भगिन्यै ) यश ऐश्वर्य को प्राप्त कराने वाली ( सरस्वत्यै ) वेदवाणी से ( स्वाहा ) हम उत्तम ज्ञान प्राप्त करें। शत १।७।२ । २०॥ 

    टिप्पणी

    २०- अग्निसरस्वत्यौ  देवते । द० । अतः परं द्वौ मन्त्रावधिकौ काण्वशाखागतौ- परिशिष्टे द्रष्टव्यौ  । 

    ऋषि | देवता | छन्द | स्वर

    परमेष्ठी प्राजापत्यः, देवाः प्राजापत्या, प्रजापतिर्वा ऋषिः 
    गार्हपत्यदक्षिणाग्नी सरस्वती च देवताः । भुरिग् ब्राह्मी त्रिष्ट्प् । धैवत:।

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    या मंत्रात श्लेषालंकार आहे. जो परमेश्वर, सर्वव्यापक व सर्वांचा रक्षक, उत्तम जन्म देणारा, उत्तम कर्म करविणारा तसेच (सर्व) माणसांना विद्या व उत्तम भोग देणारा आहे त्याचीच सदैव भक्ती केली पाहिजे. या सृष्टीत परमेश्वराने भौतिक अग्नी, सूर्यरूपी अग्नी व विद्युतरूपी अग्नी प्रकट केलेले आहेत. त्या अग्नी विद्येला चांगल्या प्रकारे जाणून व्यवहारात उपयोग केल्यास तो (अग्नी) सर्वप्रकारे रक्षण करतो व सर्व भोगांचे कारण आहे. ज्या यज्ञाग्नीमुळे व सत्यवचनयुक्त अशा वेदवाणीद्वारे उत्तम जन्म मिळतो आणि सर्व पदार्थांचे ज्ञान होते. त्याचा (यज्ञ व वेदवाणी) विद्वानांनी स्वीकार केला पाहिजे व इतरांना त्याचा स्वीकार करावयास लावला पाहिजे. या मंत्रात (नम) व (यज्ञ) ही दोन पदे पूर्वीच्या मंत्रातून घेतलेली आहेत.

    इस भाष्य को एडिट करें

    विषय

    तो अग्नी कसा आहे आणि कशामुळे प्रार्थनीय आहे, हे पुढील मंत्रात सांगितले आहे -

    शब्दार्थ

    शब्दार्थ - (या मंत्राचे दोन अर्थ आहेत - एक ईश्‍वरपरक आणि दुसरा - अग्निपरक) (अदव्धामो) निर्विघ्न आयुष्य देणार्‍या (अग्ने) हे परमेश्‍वरा, (अशीतमम्) चरावर संसारात व्यापक अशा या यज्ञाचे तू (दुरिष्टै) दुष्ट म्हणजे वेदविरूद्ध यज्ञापासून (पाहि) रक्षण कर (आम्ही शुद्ध व वेद विहित रीतीनेच यज्ञ करावा. किंवा कोणीही वेदविरूद्ध पद्धतीने यज्ञ करू नये, असे कर) (मा) मला (दिद्यो:) अत्यधिक दाहक अशा दु:खापासून (दाहि) वाचव. तसेच (प्रसित्यै) भीषण व दृढ बन्धनांपासून (पाहि) दूर ठेव. (दुरप्नन्यै) दूषित अन्न की जे घोर विपत्तीप्रमाणे आहे, त्यापासून (पाहि) आम्हांला वाचव. (आम्हांस उत्तम व निर्दोष अन्न मिळो) (न:) आमच्याकरिता (अविषम्) विषरहित (पितुम्) अभादी भोज्य पदार्थ (कृणु) उत्पन्न कर, तसेच (न:) आम्हांला (मुषदा) सुखदायक न दृढ घरात स्थिरता दे. त्या घरात आम्ही स्थिर राहून (स्वाहा) (वाट्) वेदोक्त वाक्यांनी संपन्न होणार्‍या उत्तम क्रिया (कृणु) करू, असे कर. अशा उत्तम क्रिया, कार्य करीत (यशोभगिन्यै) सत्यवचनांनी युक्त व उत्तम कर्मांची प्रेरणा देणारी (सरस्वत्यै) पदार्थांच्या गुणांना प्रकाशित करणारी ज्ञानयुक्त वेदवाणी ज्या परमेश्‍वराने आम्हांस दिली आहे, त्यास आम्ही (स्वाहा) धन्यवाद देतो. (संवेशपतये) सुखपूर्वक निवास वा प्रवेश करण्यास योग्य अशा पृथ्वी आदी लोकांचा तू पती म्हणजे पालन करणारा आहेस. अशा (अग्नेये) हे परमेशा त्या पदार्थांच्या प्राप्तीबद्दल आम्ही तुला (स्वाहा) धन्यवाद देतो आणि (नम:) तुला नमस्कार करतो. ॥1॥ हे भगवान जगदीश्‍वरा, तू (अदक्धायो) निर्विघ्न जीवन देणार्‍या (अग्नी) भौतिक अग्नीची रचना केली आहेस. तो अग्नी (अशीवमम्) सर्वत्र व्यापक यज्ञाचे (दुरिष्ट्यै) दोषयुक्त यज्ञापासून (पाहि) रक्षण करतो. (मा) मला (दिद्यो:) आत्यतिक दु:खापासून (पाहि) वाचवितो. (प्रसिव्यै) दारिद्रय सारख्या भीषण बंधनापासून (पाहि) वाचवितो. तसेच (दुरअन्ये) दूषित अन्नाचे सेवन करण्या पासून वाचवितो. (न:) आमच्या (पितुम्) अन्नादी पदार्थांना (अविषम्) विष आदी दोषांपासून दूर ठेवतो (अग्नी यज्ञाचा मुख्य अंग आहे. दु:ख आणि दारिद्रयनाशक आहे. अन्नास निर्दोष करतो व आम्हांस हानीकारक अन्नापासून वाचवितो) तो अग्नी (सुषदा) सुखदायी दृढ स्थिर गृह देतो अथवा पुढील जन्मांमधे (खाद्य) (वाट्) वेदोक्त वाक्यांनी सिद्ध होणार्‍या क्रियांचा हेतू आहे. आम्ही अशा (सेवेशपवये) पृथिवी आदी लोकांचे पालन करणार्‍या (अग्नेये) भौतिक अग्नीचा स्वीकार करून (स्वाहा) होम करतो व त्यासह (यशोभगिन्यै) (सरस्वत्यै) गुणवती वेदवाणीचे दान देणार्‍या (स्वाहा) परमात्म्याला धन्यवाद देतो. ॥20॥

    भावार्थ

    भावार्थ - या मंत्रात श्‍लेषालंकार आहे. जो सर्वव्यापी परमेश्‍वर मनुष्यांचे सर्वप्रकारे रक्षण करतो, उत्तम जन्म देतो, उत्तम कर्म करण्यास प्रेरित करतो आणि उत्तम विद्या व भोग्य पदार्थ देतो, त्याचीच पूजा-उपासना सर्वांनी करणे उचित आहे. परमेश्‍वराने आपल्या या सृष्टीमधे भौतिक अग्नीला सुर्य आणि विद्युत् रूपाने प्रकट केले आहे. त्या अग्नीचा उत्तम विद्या रीती-युक्तीने उपयोग केल्यास अग्नी सर्वप्रकारे रक्षक होतो आणि भोग्य पदार्थ देतो. परमेश्‍वराची सत्यलक्षणयुक्त प्रसिद्ध वेदवाणी देखील उत्तम जन्म देणारी आणि विद्यादीद्वारे पदार्थाने ज्ञान देणारी आहे. त्याच वेदवाणीचा सर्व विद्वानांनी स्वीकार करावा आणि इतरांनाही स्वीकार करण्यास प्रवृत्त करावे, हेच योग्य आहे. या मंत्रात (नम:) आणि (यज्ञ) हे दोन शब्द या पूर्वीच्या मंत्रापासून घेतले आहेत. ॥20॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    Oh Immortal, Omnipresent God, protect me from intense pain, protect me from the bondages of sin and ignorance, protect me from the company of evil-minded persons, protect me from food injurious to health. Make Thou our food free from poison. Let me live in a comfortable house ; praying to Thee and doing noble needs. This is our prayer to the Lord of the Universe, may we get pure knowledge through the Vedas, the givers of glory and prosperity.

    इस भाष्य को एडिट करें

    Meaning

    Agni, Lord of universal yajna, giver of life, free and without fear, save yajna from evil and violence, save me from suffering, save me from bondage, make our food free from poison and inedibles, may our home be a blessed place of peace and happiness. This oblation is for Agni, protector of the home and the earth, this is for Sarasvati, voice of the Divine, sister of honour.

    इस भाष्य को एडिट करें

    Translation

    O adorable Lord, bestower of uninjured long life, omnipresent, protect us from terrible sufferings; protect us from bondage; protect us from technical defects; protect us from bad food. Make our food free from poison. May we live in good houses. Svaha vat. (1) І dedicate it to the adorable Lord, the Lord of affectionate embraces. (2) I dedicate it to the divine intellect, the sister of glories. (3)

    Notes

    Adabdhayo,अदव्यं अनवखंडित जायुः, uninjured life-span. Asitama,अश्नुते व्यापनोति चराचर सोऽतिशयितः one who pervades all the moving and unmoving beings, i. e. omnipresent. Didyoh,hindi, from terrible suffering. दिघुः इति वज्रनाम (Nigh. II. 20). Prasityal,प्रसितिः प्रयतनात् तन्तुवो जालं वा, (Nir. VI. 12) that which binds, a cord or a net; figuratively, bondage. Duristih, दुष्टा इष्टि, defective sacrifice, i. e. technical defects in the sacrifice or in any thing. Duradmanyah, from bad eating. दुष्टा आपनी दुर्मोजनम् (Mahidhara). Pitum, food. Susada yonau, in a house pleasing to live in. Svaha vat, fully dedicated to (gods). Yasobhaginyal, for the sister of glories; related to glories; or enjoyer of glories. Sarasvati, speech. सरो ज्ञान तत् प्रशस्त विद्यते यस्यां वाचि सा (Daya). Samvesapataye, for the Lord of affectionate embraces. स्त्री पुसयोः अमिलाषपूर्वक एकत्र शयने सर्वशः (Uvata).

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    অথ সোऽগ্নিঃ কীদৃশঃ কিমর্থঃ প্রার্থনীয়শ্চেত্যুপদিশ্যতে ॥
    উক্ত অগ্নি কেমন এবং কেন প্রার্থনা করিবার যোগ্য তাহা পরবর্ত্তী মন্ত্রে প্রকাশিত করা হইয়াছে ॥

    पदार्थ

    পদার্থঃ- হে (অদব্ধায়ো) নির্বিঘ্ন আয়ু প্রদাতা (অগ্নে) জগদীশ্বর ! আপনি (অশীতিমম্) চরাচর সংসারে ব্যাপক যজ্ঞকে (দুরিষ্ট্যৈ) দুষ্ট অর্থাৎ বেদবিরুদ্ধ যজ্ঞ হইতে (পাহি) রক্ষা করুন (মা) আমাকে (দিদ্যোঃ) অতি দুঃখ হইতে (পাহি) বাঁচান তথা (প্রসিত্যৈ) দুর্বহ বন্ধন হইতে (পাহি) পৃথক রাখুন (দুবদ্মন্যৈ) দুষ্ট ভোজনের বিপত্তি হইতে (পাহি) রক্ষা করুন এবং (নঃ) আমাদের জন্য (অবিষম্) বিষাদি দোষরহিত (পিতুম্) অন্নাদি পদার্থ (কৃণু) উৎপন্ন করুন তথা (নঃ) আমাদেরকে (সুষদা) সুখপূর্বক স্থিরতা প্রদানকারী গৃহে (স্বাহা) (বাট্) বেদোক্ত বাক্য দ্বারা সিদ্ধ হওয়ার উত্তম ক্রিয়াগুলিতে স্থির (কৃণু) করুন, যাহাতে আমরা (য়শোভগিন্যৈ) সত্যবচনাদি উত্তম কর্মের সেবনকারী (সরস্বত্যৈ) পদার্থের প্রকাশিত করাতে উত্তম জ্ঞানযুক্ত বেদবাণীর জন্য (স্বাহা) ধন্যবাদ বা (সংবেশপতয়ে) উত্তম প্রকার যে সব পৃথিব্যাদি লোকে প্রবেশ করি তাহাদের পতি অর্থাৎ পালক (অগ্নয়ে) আপনি, তাহার জন্য (স্বাহা) ধন্যবাদ এবং (নমঃ) নমস্কার করি ॥ ১ ॥ হে ভগবন্ জগদীশ্বর ! আপনি যে এই (অদব্ধায়ো) নির্বিঘ্ন আয়ুর নিমিত্ত (অগ্নে) ভৌতিক অগ্নি নির্মাণ করিয়াছেন তাহাও (অশীতিমম্) সর্বত্রব্যাপক যজ্ঞকে (দুরিষ্ট্যৈ) দুষ্ট যজ্ঞ হইতে রক্ষা করেন তথা (মা) আমাকে (দিদ্যোঃ) অত্যন্ত দুঃখ হইতে (পাহি) ত্রাণদান করেন (প্রাসত্যৈ) অত্যন্ত দারিদ্যের বন্ধন হইতে (পাহি) মুক্ত করেন তথা (দুরদ্মন্যৈ) দুষ্ট ভোজন করাইবার ক্রিয়াগুলি হইতে (পাহি) উদ্ধার করেন এবং (নঃ) আমাদের (পিতুম্) অন্নাদি পদার্থ (অবিষম্) বিষাদি দোষরহিত (কৃণু) করিয়া দেন তিনি (সুষদা) সুখপূর্বক স্থিতি দানকারী গৃহ অথবা অন্যান্য জন্মে (স্বাহা) (বাট্) বেদোক্ত বাক্য দ্বারা সিদ্ধ হওয়ার ক্রিয়াগুলির হেতু, আমরা সেই (সংবেশপতয়ে) পৃথিব্যাদি লোকের পালক (অগ্নয়ে) ভৌতিক অগ্নিকে গ্রহণ করিয়া (স্বাহা) হোম তথা তৎসহ (য়শোভগিন্যৈ) (সরস্বতৈ) উক্ত গুণযুক্ত বেদবাণী প্রাপ্ত হেতু (স্বাহা) পরমাত্মার ধন্যবাদ করি ॥ ২০ ॥

    भावार्थ

    ভাবার্থঃ- এই মন্ত্রে শ্লেষালঙ্কার আছে । মনুষ্যদেরকে যে সর্বব্যাপক সর্ব প্রকারে রক্ষা করিবার, উত্তম জন্ম দেওয়ার, উত্তম কর্ম করাইবার এবং উত্তম বিদ্যা বা উত্তম ভোগ প্রদান করিবার জগদীশ্বর, তাহারই সেবন সর্বদা করাই উচিত তথা এই যে সৃষ্টিতে পরমেশ্বর ভৌতিক অগ্নি প্রত্যক্ষ সূর্য্যলোক এবং বিদ্যুৎ রূপে প্রকাশিত করিয়াছেন তাহাও ভাল প্রকার বিদ্যা দ্বারা উপকার গ্রহণ করিতে সংযুক্ত করা সর্ব প্রকারে রক্ষা ও উত্তম ভোগের হেতু হয়েন । যাহার কীর্ত্তির নিমিত্ত সত্যলক্ষণযুক্ত বেদবাণী হইতে উত্তম জন্ম অথবা সর্ব পদার্থ হইতে ভাল ভাল বিদ্যা প্রকাশিত হয় সেই সবগুলি বিদ্বান্দিগের স্বীকার করিবার যোগ্য । এই মন্ত্রে (নমঃ) ও (যজ্ঞ) এই দুইটি পদ পূর্ব মন্ত্র হইতে লওয়া হইয়াছে ॥ ২০ ॥

    मन्त्र (बांग्ला)

    অগ্নে॑ऽদব্ধায়োऽশীতম পা॒হি মা॑ দি॒দ্যোঃ পা॒হি প্রসি॑ত্যৈ পা॒হি দুরি॑ষ্ট্যৈ পা॒হি দুর॑দ্ম॒ন্যাऽঅ॑বি॒ষং নঃ॑ পি॒তুং কৃ॑ণু । সু॒ষদা॒ য়োনৌ॒ স্বাহা॒ বাড॒গ্নয়ে॑ সংবে॒শপ॑তয়ে॒ স্বাহা॒ সর॑স্বত্যৈ য়শোভ॒গিন্যৈ॒ স্বাহা॑ ॥ ২০ ॥

    ऋषि | देवता | छन्द | स्वर

    অগ্নেऽদব্ধায়ো ইত্যস্য ঋষিঃ স এব । অগ্নিসরস্বত্যৌ দেবতে । ভুরিগ্ব্রাহ্মীত্রিষ্টুপ্ ছন্দঃ । ধৈবতঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top