Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 23
    ऋषिः - प्रजापतिर्ऋषिः देवता - द्यौरित्यादयो देवताः छन्दः - त्रिष्टुप् स्वरः - धैवतः
    7

    अदि॑ति॒र्द्यौरदितिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः।विश्वे॑ दे॒वाऽअदि॑तिः॒ पञ्च॒ जना॒ऽअदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्॥२३॥

    स्वर सहित पद पाठ

    अदि॑तिः। द्यौः। अदि॑तिः। अ॒न्तरि॑क्षम्। अदि॑तिः। मा॒ता। सः। पि॒ता। सः। पु॒त्रः। विश्वे॑। दे॒वाः। अदि॑तिः। पञ्च॑। जनाः॑। अदि॑तिः। जा॒तम्। अदि॑तिः। जनि॑त्व॒मिति॒ जनि॑ऽत्वम् ॥२३ ॥


    स्वर रहित मन्त्र

    अदितिर्द्यारदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवाऽअदितिः पञ्च जनाऽअदितिर्जातमदितिर्जनित्वम् ॥


    स्वर रहित पद पाठ

    अदितिः। द्यौः। अदितिः। अन्तरिक्षम्। अदितिः। माता। सः। पिता। सः। पुत्रः। विश्वे। देवाः। अदितिः। पञ्च। जनाः। अदितिः। जातम्। अदितिः। जनित्वमिति जनिऽत्वम्॥२३॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 23
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्द्यौदितिरन्तरिक्षमदितिर्माता स पिता सा पुत्रश्चादितिर्विश्वे देवा अदितिः पञ्च जना अदितिर्जातञ्जनित्वञ्चादितिरस्तीति वेद्यम्॥२३॥

    पदार्थः -
    (अदितिः) अखण्डिता (द्यौः) कारणरूपेण प्रकाशः (अदितिः) अविनाशि (अन्तरिक्षम्) आकाशम् (अदितिः) विनाशरहिता (माता) सर्वस्य जगतो जननी प्रकृतिः (सः) परमेश्वरः (पिता) नित्यपालकः (सः) (पुत्रः) ईश्वरस्य पुत्र इवाविनाशी (विश्वे) सर्वे (देवाः) दिव्यगुणादियुक्ताः पृथिव्यादयः (अदितिः) कारणरूपेण नाशरहिता (पञ्च) एतत्संख्याकाः (जनाः) मनुष्याः प्राणा वा (अदितिः) स्वात्मरूपेण नित्यम् (जातम्) यत्किंचिदुत्पन्नं कार्यम् (अदितिः) कारणरूपेण नित्यम् (जनित्वम्) उत्पत्स्यमानम्॥२३॥

    भावार्थः - हे मनुष्या! भवन्तो यत् किंचित् कार्यं जगत् पश्यन्ति, तददृष्टकारणं विजानन्तु। ज᳕गन्निर्मातारं परमात्मानं जीवं पृथिव्यादीनि तत्त्वानि यज्जातं यच्च जनिष्यते या च प्रकृतिस्तत्सर्वं स्वरूपेण नित्यमस्ति, न कदाप्यस्याभावो भवति, न चाऽभावाद् भावोत्पत्तिर्भवतीति विज्ञेयम्॥२३॥

    इस भाष्य को एडिट करें
    Top