Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 39
    ऋषिः - गोतम ऋषिः देवता - विद्वांसो देवता छन्दः - विराट् पङ्क्तिः स्वरः - पञ्चमः
    9

    यदश्वा॑य॒ वास॑ऽउपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै।स॒न्दान॒मर्व॑न्तं॒ पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति॥३९॥

    स्वर सहित पद पाठ

    यत्। अश्वा॑य। वासः॑। उ॒प॒स्तृ॒णन्तीत्यु॑पऽस्तृ॒णन्ति॑। अ॒धी॒वा॒सम्। अ॒धि॒वा॒समित्य॑धिऽवा॒सम्। या। हिर॑ण्यानि। अ॒स्मै॒। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑न्तम्। पड्वी॑शम्। प्रि॒या। दे॒वेषु॑। आ। या॒म॒य॒न्ति॒। य॒म॒य॒न्तीति॑ यमयन्ति ॥३९ ॥


    स्वर रहित मन्त्र

    यदश्वाय वासऽउपस्तृणन्त्यधीवासँया हिरण्यान्यस्मै । सन्दानमर्वन्तम्पड्वीशम्प्रिया देवेष्वा यामयन्ति ॥


    स्वर रहित पद पाठ

    यत्। अश्वाय। वासः। उपस्तृणन्तीत्युपऽस्तृणन्ति। अधीवासम्। अधिवासमित्यधिऽवासम्। या। हिरण्यानि। अस्मै। सन्दानमिति सम्ऽदानम्। अर्वन्तम्। पड्वीशम्। प्रिया। देवेषु। आ। यामयन्ति। यमयन्तीति यमयन्ति॥३९॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 39
    Acknowledgment

    अन्वयः - हे मनुष्या! भवन्तोऽस्मा अश्वाय यद्वासोऽधीवासं सन्दानं या हिरण्यान्युपस्तृणन्ति यं पड्वीशमर्वन्तमायामयन्ति, तानि सर्वाणि देवेषु प्रिया सन्तु॥३९॥

    पदार्थः -
    (यत्) (अश्वाय) (वासः) वत्रम् (उपस्तृणन्ति) आच्छादयन्ति (अधीवासम्) उपरि स्थापनीयम् (या) यानि (हिरण्यानि) हिरण्यैर्निर्मितानि आभूषणादीनि (अस्मै) (सन्दानम्) शिरोबन्धनादि (अर्वन्तम्) गच्छन्तम् (पड्वीशम्) पद्भिर्विशन्तम् (प्रिया) प्रियाणि (देवेषु) विद्वत्सु (आ) समन्तात् (यामयन्ति) नियमयन्ति॥३९॥

    भावार्थः - यदि मनुष्या अश्वादीन् पशून् यथावद् रक्षयित्वोपकारं गृह्णीयुस्तर्हि बहुकार्यसिद्ध्युपकृताः स्युः॥३९॥

    इस भाष्य को एडिट करें
    Top