यजुर्वेद - अध्याय 25/ मन्त्र 10
ऋषिः - प्रजापतिर्ऋषिः
देवता - हिरण्यगर्भो देवता
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
5
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ऽआसीत्। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१०॥
स्वर सहित पद पाठहि॒र॒ण्य॒ग॒र्भ इति॑ हिरण्यऽग॒र्भः। सम्। अ॒व॒र्त्त॒त॒। अग्रे॑। भू॒तस्य॑। जा॒तः। पतिः॑। एकः॑। आ॒सी॒त्। सः। दा॒धा॒र॒। पृ॒थि॒वीम्। द्याम्। उ॒त। इ॒माम्। कस्मै॑। दे॒वाय॑। ह॒विषा॑। वि॒धे॒म॒ ॥१० ॥
स्वर रहित मन्त्र
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेकऽआसीत् । स दाधार पृथिवीन्द्यामुतेमाङ्कस्मै देवाय हविषा विधेम ॥
स्वर रहित पद पाठ
हिरण्यगर्भ इति हिरण्यऽगर्भः। सम्। अवर्त्तत। अग्रे। भूतस्य। जातः। पतिः। एकः। आसीत्। सः। दाधार। पृथिवीम्। द्याम्। उत। इमाम्। कस्मै। देवाय। हविषा। विधेम॥१०॥
विषयः - अथ परमात्मा कीदृशोऽस्तीत्याह॥
अन्वयः - हे मनुष्याः! यथा वयं यो हिरण्यगर्भो जातो जातस्य भूतस्यैकोऽग्रे पतिरासीत् सर्वप्रकाशेऽवर्त्तत स पृथिवीमुत द्यां संदाधार। य इमां सृष्टिं कृतवाँस्तस्मै कस्मै देवाय परमेश्वराय हविषा विधेम तथा यूयमपि विधत्त॥१०॥
पदार्थः -
(हिरण्यगर्भः) हिरण्यानि सूर्यादितेजांसि गर्भे यस्य स परमात्मा (सम्) (अवर्त्तत) वर्त्तमान आसीत् (अग्रे) भूम्यादिसृष्टेः प्राक् (भूतस्य) उत्पन्नस्य (जातः) प्रादूर्भूतस्य। अत्र षष्ठ्यर्थे प्रथमा। (पतिः) पालकः (एकः) असहायः (आसीत्) अस्ति (सः) (दाधार) धरति (पृथिवीम्) आकर्षणेन भूमिम् (द्याम्) प्रकाशम् (उत) अपि (इमाम्) सृष्टिम् (कस्मै) सुखकारकाय (देवाय) द्योतमानाय (हविषा) होतव्येन पदार्थेन (विधेम) परिचरेम॥१०॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! येन परमेश्वरेण सूर्यादि सर्वं जगन्निर्मितं स्वसामर्थ्येन धृतं च तस्यैवोपासनां कुरुत॥१०॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal