Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 34
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - भुरिक् त्रिष्टुप् स्वरः - धैवतः
    7

    यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति।मा तद्भूम्या॒माश्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु॥३४॥

    स्वर सहित पद पाठ

    यत्। ते॒। गात्रा॑त्। अ॒ग्निना॑। प॒च्यमा॑नात्। अ॒भि। शूल॑म्। निह॑त॒स्येति॒ निऽह॑तस्य। अ॒व॒धाव॒ती॒त्य॑व॒ऽधाव॑ति। मा। तत्। भूम्या॑म्। आ। श्रि॒ष॒त्। मा। तृणे॑षु। दे॒वेभ्यः॑। तत्। उ॒शद्भ्य॒ऽइत्यु॒शत्ऽभ्यः॑। रा॒तम्। अ॒स्तु॒ ॥३४ ॥


    स्वर रहित मन्त्र

    यत्ते गात्रादग्निना पच्यमानादभि शूलम्निहतस्यावधावति । मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥


    स्वर रहित पद पाठ

    यत्। ते। गात्रात्। अग्निना। पच्यमानात्। अभि। शूलम्। निहतस्येति निऽहतस्य। अवधावतीत्यवऽधावति। मा। तत्। भूम्याम्। आ। श्रिषत्। मा। तृणेषु। देवेभ्यः। तत्। उशद्भ्यऽइत्युशत्ऽभ्यः। रातम्। अस्तु॥३४॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 34
    Acknowledgment

    अन्वयः - हे मनुष्य! निहतस्य ते तवाग्निना पच्यमानाद् गात्राद्यच्छूलमभ्यवधावति तद्भूम्यां माऽऽश्रिषत्। तत्तृणेषु माऽऽश्रिषत्, किन्तु तच्चोशद्भ्यो देवेभ्यो रातमस्तु॥३४॥

    पदार्थः -
    (यत्) यदा (ते) तव (गात्रात्) अङ्गात् (अग्निना) अन्तःकरणरूपेण तेजसा (पच्यमानात्) (अभि) (शूलम्) शु शीघ्रं लाति बोधं गृह्णाति येन तद्वचः। पृषोदरादित्वात् सिद्धम् (निहतस्य) निश्चयेन कृतश्रमस्य (अवधावति) गच्छति (मा) (तत्) (भूम्याम्) (आ, श्रिषत्) आश्रयति (मा) (तृणेषु) (देवेभ्यः) विद्वद्भ्यः (तत्) (उशद्भ्यः) सत्पुरुषेभ्यः (रातम्) दत्तम् (अस्तु)॥३४॥

    भावार्थः - हे मनुष्याः! यानि ज्वरादिपीडितान्यङ्गानि भवेयुस्तानि वैद्येभ्यो नीरोगाणि कार्याणि, तैर्यदौषधं दीयेत तद्रोगिभ्यो हितकरं भवति॥३४॥

    इस भाष्य को एडिट करें
    Top