Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 16
    ऋषिः - भार्गवो जमदग्निर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    6

    इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फाना॑ सनि॒तुर्नि॒धाना॑।अत्रा॑ ते भ॒द्रा र॑श॒नाऽअ॑पश्यमृ॒तस्य॒ याऽअ॑भि॒रक्ष॑न्ति गो॒पाः॥१६॥

    स्वर सहित पद पाठ

    इ॒मा। ते॒ वा॒जि॒न्। अ॒व॒मार्ज॑ना॒नीत्य॑व॒ऽमार्ज॑नानि। इ॒मा। श॒फाना॑म्। स॒नि॒तुः। नि॒धानेति॑ नि॒ऽधाना॑। अत्र॑। ते॒। भ॒द्राः। र॒श॒नाः। अ॒प॒श्य॒म्। ऋ॒तस्य॑। याः। अ॒भि॒रक्ष॒न्तीत्य॑भि॒ऽरक्ष॑न्ति। गो॒पाः ॥१६ ॥


    स्वर रहित मन्त्र

    इमा ते वाजिन्नवमार्जनानीमा शफानाँ सनितुर्निधाना । अत्रा ते भद्रा रशनाऽअपश्यमृतस्य याऽअभिरक्षन्ति गोपाः ॥


    स्वर रहित पद पाठ

    इमा। ते वाजिन्। अवमार्जनानीत्यवऽमार्जनानि। इमा। शफानाम्। सनितुः। निधानेति निऽधाना। अत्र। ते। भद्राः। रशनाः। अपश्यम्। ऋतस्य। याः। अभिरक्षन्तीत्यभिऽरक्षन्ति। गोपाः॥१६॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 16
    Acknowledgment

    अन्वयः - हे वाजिन्! यथाऽहं ते तवेमाश्वस्यावमार्जनानीमा शफानां सनितुर्निधानाऽपश्यमत्र तेऽश्वस्य या भद्रा गोपा रशना ऋतस्याभिरक्षन्ति ता अपश्यं तथा त्वं पश्य॥१६॥

    पदार्थः -
    (इमा) इमानि प्रत्यक्षाणि (ते) तव (वाजिन्) अश्व इव वेगादिगुण सेनाधीश! (अवमार्जनानि) शुद्धिकरणानि (इमा) इमानि (शफानाम्) खुराणाम् (सनितुः) रक्षणानि यमस्य (निधाना) निधानानि स्थानानि (अत्र) अस्मिन् सैन्ये। अत्र संहितायाम् [अ॰६.३.११४] इति दीर्घः। (ते) तव (भद्राः) शुभकरीः (रशनाः) रज्जवः (अपश्यम्) पश्यामि (ऋतस्य) यथार्थम्। अत्र कर्मणि षष्ठी (याः) (अभिरक्षन्ति) सर्वतः पान्ति (गोपाः) पालिकाः॥१६॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये स्नानेनाश्वादीनां शुद्धिं तच्छफानां रक्षणायायसो निर्मितस्य योजनमन्यानि रशनादीनि च संयोज्य सुशिक्ष्य रक्षन्ति, ते युद्धादिषु कार्येषु कृतसिद्धयो भवन्ति॥१६॥

    इस भाष्य को एडिट करें
    Top