Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 50
    ऋषिः - भारद्वाज ऋषिः देवता - वीरा देवताः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः
    10

    आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒२ऽउप॑ जिघ्नते।अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय॥५०॥

    स्वर सहित पद पाठ

    आ। ज॒ङ्घ॒न्ति॒। सानु॑। ए॒षा॒म्। ज॒घना॑न्। उप॑। जि॒घ्न॒ते॒। अश्वा॑ज॒नीत्यश्व॑ऽजनि। प्रचे॑तस॒ इति॒ प्रऽचे॑तसः। अश्वा॑न्। स॒मत्स्विति॑ स॒मत्ऽसु॑। चो॒द॒य॒ ॥५० ॥


    स्वर रहित मन्त्र

    आजङ्घन्ति सान्वेषाञ्जघनाँऽउप जिघ्नते । अश्वाजनि प्रचेतसो श्वान्त्समत्सु चोदय ॥


    स्वर रहित पद पाठ

    आ। जङ्घन्ति। सानु। एषाम्। जघनान्। उप। जिघ्नते। अश्वाजनीत्यश्वऽजनि। प्रचेतस इति प्रऽचेतसः। अश्वान्। समत्स्विति समत्ऽसु। चोदय॥५०॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 50
    Acknowledgment

    अन्वयः - अश्वाजनि विदुषि राज्ञि! यथा वीरा एषां सानु आजङ्घन्ति जघनानुप जिघ्नते तथा त्वं समत्सु प्रचेतसोऽश्वाञ्चोदय॥५०॥

    पदार्थः -
    (आ) समन्तात् (जङ्घन्ति) भृशं घ्नन्ति ताडयन्ति (सानु) अवयवम् (एषाम्) अश्वादीनाम् (जघनान्) यूनः (उप) (जिघ्नते) घ्नन्ति गमयन्ति (अश्वाजनि) या अश्वान् जनयति सुशिक्षितान् करोति तत्सम्बुद्धौ (प्रचेतसः) शिक्षया प्रकर्षेण विज्ञापितान् (अश्वान्) तुरङ्गान् (समत्सु) सङ्ग्रामेषु (चोदय) प्रेरय॥५०॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा राजा राजपुरुषाश्च यानाश्वचालनयुद्धव्यवहारान् जानीयुस्तथा तत्स्त्रियोऽपि विजानन्तु॥५०॥

    इस भाष्य को एडिट करें
    Top