Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 21
    ऋषिः - याज्ञवल्क्यः देवता - विश्वेदेवा देवताः छन्दः - उष्णिक् स्वरः - ऋषभः
    12

    रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑व॒स्मिन् गो॒ष्ठेऽस्मिँल्लो॒केऽस्मिन् क्षये॑। इ॒हैव स्त॒ माप॑गात॥२१॥

    स्वर सहित पद पाठ

    रेव॑तीः। रम॑ध्वम्। अ॒स्मिन्। योनौ॑। अ॒स्मिन्। गो॒ष्ठे। गो॒स्थ इति॑ गो॒ऽस्थे॑। अ॒स्मिन्। लो॒के। अ॒स्मिन्। क्षये॑। इ॒ह। ए॒व। स्त॒। मा। अप॑। गा॒त॒ ॥२१॥


    स्वर रहित मन्त्र

    रेवती रमध्वमस्मिन्योनावस्मिन्गोष्ठे स्मिँल्लोके स्मिन्क्षये । इहैव स्त मापगात ॥


    स्वर रहित पद पाठ

    रेवतीः। रमध्वम्। अस्मिन्। योनौ। अस्मिन्। गोष्ठे। गोस्थ इति गोऽस्थे। अस्मिन्। लोके। अस्मिन्। क्षये। इह। एव। स्त। मा। अप। गात॥२१॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 21
    Acknowledgment

    अन्वयः - हे मनुष्याः! प्रशस्ता नीत्यादयो रेवती रेवत्यस्ता अस्मिन् योनावस्मिन् गोष्ठेऽस्मिन् लोकेऽस्मिन् क्षये रमध्वं रमन्तामितीच्छन्तो भवन्त इहैतेष्वेव नित्यं प्रवर्तन्ताम्, किन्त्वेतेभ्यो मापगात कदाचित् दूरं मा गच्छन्तु॥२१॥

    पदार्थः -
    (रेवतीः) विद्याधनसहिताः प्रशस्ता नीतयो गाव इन्द्रियाणि पशवः पृथिवीराज्यादियुक्ता यासु ताः। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति पूर्वसवर्णादेशः, प्रशंसार्थे मतुप् च। (रमध्वम्) रमणं कुर्वन्तु। अत्र व्यत्ययः। (अस्मिन्) प्रत्यक्षे (योनौ) जन्मनि स्थले वा (अस्मिन्) समक्षे (गोष्ठे) गावः पशव इन्द्रियाणि यस्मिंस्तिष्ठन्ति तस्मिन् (अस्मिन्) सेव्यमाने (लोके) संसारे (अस्मिन्) अस्माभिः संपादिते (क्षये) निवसनीये गृहे (इह) एतेषु (एव) अवधारणार्थे (स्त) सन्ति। अत्र व्यत्ययो लडर्थे लोट् च। (मा) निषेधे (अप) दूरार्थे (गात) गच्छन्तु। अत्र लोडर्थे लङ् पुरुषव्यत्ययश्च। अयं मन्त्रः (शत॰२.३.४.२६) व्याख्यातः॥२१॥

    भावार्थः - यत्र विद्वांसो निवसन्ति तत्र विद्यादीनां गुणानां निवासात् प्रजा विद्यासुशिक्षाधनवत्यो भूत्वा नित्यं सुखेन सह युञ्जते। तस्मात् सर्वैरेवमिच्छा कार्याऽस्माकं सङ्गसमीपाद् विद्वांसो विदुषां समीपाच्च वयं कदाचिद् दूरे मा भवेमेति॥२१॥

    इस भाष्य को एडिट करें
    Top